________________
कातन्त्रव्याकरणम्
तथा 'सुप्तः, शयितः, आसितः, लिप्तः, स्निग्धः, तृप्तः' इत्यादय: । वर्तमान भूतो भावी च क्रियाक्षणोऽस्त्येव विवक्षा गरीयसीति वचनम् ||११६६ ।
[दु० टी०]
४०८
ञ्यनुबन्ध०। अन्यत्रापीत्यादि । "कृत्ययुटोऽन्यत्रापि” (४।५।९२) इत्यपिशब्दस्य बहुलार्थत्वादित्यर्थः । शीलादिभ्यो धातुभ्यो वर्तमाने भवतीति शीलयतीति शीलित इति। कष्टमिति भविष्यत्काले करिष्यतीति कष्टम् । 'अमृताः' इति बहुवचनेन गणो गृह्यते। न म्रियन्ते इत्यमृताः पूर्ववद् वर्तमाने इत्यर्थः । भूते तो विहितो वर्तमाने न स्यादिति वचनम् । बहवः क्रियाक्षणाः सन्तीति दर्शयति- वर्तमान इत्यादि । भूतक्रियाक्षणमाश्रित्य भूते भविष्यतीति भावः । ञिमिदाप्रभृतीनां च धातूनां त्र्यनुबन्धे न विधेयः स्यात् परिहरति विवक्षेत्यादि वर्तमानलक्षणोऽपि क्तोऽयमिष्यते इति । अन्य आह-विशेषधातुविहितत्वादर्थभेदे सत्यप्युक्तिबाधया भूतविहितस्य बाधकोऽयम् । यथा ब्राह्मणेभ्यो दधि दीयताम्, तक्रं कौण्डिन्यायेति । ' त्वया ज्ञातः, मया ज्ञातः, सुरैः पूजित:' इति शिष्टप्रयोगाश्च दृश्यन्ते ।। ११६६ ।
[वि० प० ]
"
ञ्यनु०। अतीते क्तः सिद्धो वर्तमाने न स्यादिति वचनम् । मिन्नः, क्ष्विण्ण इति । “आदनुबन्धाच्च” (४।६।९१) इतीट्प्रतिषेधात् "दाद् दस्य च' (४।६।१०२) इति नत्वम् । “रषृवर्णे ०" (२।४।४८) इत्यादिना क्ष्विदेर्नस्य णत्वं परस्य तु नस्य ‘“तवर्गस्य षटवर्गाट् टवर्ग:" (३।८।५ ) इति । राज्ञामित्यादि । " न निष्ठादिषु" (२।४।४२) इति कर्तृकर्मणोः षष्ठीप्रतिषेधात् “क्तस्य च वर्तमाने" इति पुनस्तद्विधानाभावाच्च कथमिह षष्ठी ? सत्यम्, वर्तमाने विहिते ते सम्बन्धविवक्षैव दृश्यते, अतीतविहिते तु ‘राजभिर्मतः, राजभिरिष्टः' इति तृतीयैव । अन्यत्रापीत्यादि । रुषितश्चेति । "वेषुसह (४।६।८१) इत्यादिना वेट्त्वात् "न डीश्वी० " (४।६।९०) इत्यादिना इट्प्रतिषेधे प्राप्ते " वा रुष्यमत्वर ० (४।६।९८) इत्यादिना वा इट् । कष्टमिति भविष्यति काले "क्षुभिवाहि (४।६।९३) इत्यादिना कृच्छ्रार्थे कषेरिडभावः । 'अमृताः' इति बहुवचनं गणार्थम् । पूर्ववदिति । वर्तमाने इत्यर्थः । न म्रियते इति अमृतम्। गणमेवोदाहरति - तथेति । स्निग्ध इति । 'ष्णिह प्रीतौ' ( ३।४०)। “मुहद्रुहष्णुहष्णिहां विभाषया " इति वचनाद् हस्य घत्वे " घढधभेभ्यस्तथोर्थोऽधः ' ( ३।८।३) इति तस्य धत्वम् । 'शीलित:' इत्यादिना वर्तमानक्तान्तेनापि योगे 'ना निष्ठादिषु' (२।४।४२) इति षष्ठीप्रतिषेधः । देवदत्तेन शीलितः, देवदत्तेन रक्षितः । प्रारम्भोऽपरिसमाप्तिर्वर्तमानः। तत्र च बहवः क्रियाक्षणाः सन्तीति । भूतक्रियाक्षणमाश्रित्यातीते निष्ठा सिद्धा इत्याह वर्तमान इत्यादि ॥। ११६६।
०
""
O
"
-