________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
११६५. ऋषिदेवतयोः कर्तरि [४ । ४ । ६५ ]
[ सूत्रार्थ ]
कर्ता अर्थ में ‘ऋषि-देव' के गम्यमान होने पर 'पू' धातु से 'इन्' प्रत्यय होता ।। ११६५।
[दु० वृ०]
पुव इत्रन् भवति ऋषौ देवतायां च कर्तरि । पुनातीति पवित्रोऽयमृषिः। पवित्रोऽग्निः। केचित् करणमनुवर्त्य यथासंख्यसम्बन्धमिच्छन्ति । विवक्षायां को विशेष इति । ११६५। [दु० टी० ]
ऋषि०। केचिदित्यादि । ऋषौ करणे देवतायां कर्तरीत्यर्थः । एवं पवन्ते पुनन्ति वा तेनेति विवक्षा कोऽर्थविशेष इति रूढित्वादिति करणस्यापि कर्तृत्वविवक्षेति ।।११६५।
[वि० प० ]
ऋषि० । केचिदिति । ऋषौ कर्तरि देवतायां च करणे इति विवक्षायां को विशेषः? करणे तु कर्तृत्वविवक्षायां प्रत्यये न कश्चिद् भेदः ||११६५ ।
[समीक्षा]
द्रष्टव्य सूत्र सं० चर्षिदेवतयोः” (अ० ३।२।१८६ ) |
११६४ की समीक्षा। पाणिनि का सूत्र है
-
४०७
-
[रूपसिद्धि]
१ २. पवित्रोऽयमृषिः । पवित्रोऽग्निः । प्रक्रिया पूर्ववत् ॥११६५ ।
११६६. व्यनुबन्धमतिबुद्धिपूजार्थेभ्य: क्तः [ ४।४।६६ ]
[सूत्रार्थ]
-
"कर्तरि
भाव,
कर्म तथा कर्ता अर्थ में 'जि' अनुबन्धवाली धातुओं से तथा मति - बुद्धि पूजार्थक धातुओं से वर्तमान में 'क्त' प्रत्यय होता है ।। ११६६ ।
[दु० वृ० ]
1
मतिरिच्छा, बुद्धिर्ज्ञानम्, पूजा सत्कारः । ञ्यनुबन्धेभ्यो मतिबुद्धिपूजार्थेभ्यश्च वर्तमाने क्तो भवति भावे कर्मणि कर्तरि च यथासम्भवम् । ञिमिदा - मित्र: । ञि क्ष्विदा - क्ष्विण्णः । मत्यर्थात् - राज्ञां मतः, राज्ञामिष्टः । बुद्ध्यर्थात् - राज्ञां बुद्ध:, राज्ञां ज्ञातः । पूजार्थात् राज्ञां पूजितः राज्ञामर्चितः । अन्यत्रापीति बहुलत्वात् शीलितो रक्षितः क्षान्त: आक्रुष्टो जुष्ट इत्यपि । रुषितश्चोभावभिव्याहृत इत्यपि ।। १ । हृष्टतुष्टौ तथा कान्तस्तथोभौ संयतोद्यतौ । कष्टं भविष्यतीत्याहुरमृताः पूर्ववत् स्मृताः ।। २।
रुष्टश्च
=