________________
४०५
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [वि० प०]
हल०। हलशूकरयोरित्यवयवावयविसम्बन्धे षष्ठी, न ह्यन्यथा हलशूकरयोरवयवो गम्यते इति । पोत्रमितीट् न भवति ।।११६२।
[क० च०]
हल०। सर्वधातुभ्य इत्युणादौ सूत्रमिदम् , न ह्यन्यथेति पञ्जी। एतेनाभिधानमाश्रित्येति भाव: । अभिधानाश्रयणे प्रयोजनान्तरमाह-पोत्रमिति ।।११६२।
[समीक्षा] _ 'पोत्रम् ' शब्दरूप के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ष्टन' प्रत्यय किया गया है । पाणिनि का सूत्र है - "हलसूकरयोः पुवः' (अ०३।२।१८३)। अत: उभयत्र समानता है।
[रूपसिद्धि]
१. पोत्रम्। पूञ् , पूङ् + ष्ट्रन् + सि । हलशूकरयोरवयव: । 'पूञ् पवने, पूङ् पवने' (८1८; १।४६५) धातु से प्रकृत सूत्र द्वारा ‘ष्ट्रन्' प्रत्यय, ‘ष् - न्' अनुबन्धों का प्रयोगाभाव, धातुघटित ऊकार को गुण, लिङ्ग संज्ञा, सि - प्रत्यय तथा "अकारादसम्बुद्धौ मुश्च' (२।२।७) से सिलोप - 'मु' आगम ।।११६२। ११६३. अर्त्ति-लू-धू-सू-खनि-सहि-चरिभ्य
इनन् [४।४।६३] [सूत्रार्थ]
करण अर्थ में 'ऋ - लू - धू' इत्यादि ७ धातुओं से 'इत्रन्' प्रत्यय होता है ।।११६३।
[दु० वृ०]
एभ्य: करणे इत्रन् भवति । अरित्रम् , लवित्रम् , धवित्रम्। 'घू प्रेरणे' (५।१८)सवित्रम् । खनित्रम् , सहित्रम् । 'चर गत्यर्थः' (१।१८९) - चरित्रम् ।।११६३।
[दु० टी०]
अर्तिः। भौवादिकजौहोत्यादिकयोहणम् । तिपमन्तरेण ऋकारान्तादित्यपि प्रतिपद्येत। धातुसाहचर्याद् धातुरेवायमिति गरीयान् पक्ष: । 'धूञ् कम्पने, घूङ् प्राणिगर्भविमोचने, षूङ प्राणिप्रसवे' (८।१३;२१५४;३।८१), एषामपि यदि ग्रहणं. स्यात् तदाप्यदोषो रूढिशब्दत्वात् । अपरस्त्वाह - 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४८) इति । इत्रन्निति नकारः सुखार्थ एव, अन्यथा विसर्जनीये सति सान्तोऽयमिति विप्रतिपद्येत।।११६३।
[क० च०]
अर्तिः। अर्तीति सामान्यनिर्देशाद् भौवादिकजौहोत्यादिकयोरपि ग्रहणम् । इत्रनिति नकारः श्रुतिसुखार्थः ।।११६३।