SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः ४०१ सम्प्रसारणम् । वचे:- वाक्। प्रच्छे:- शब्दप्राट् । कटप्रूः । कटादेव प्रवतेरभिधानम् । यथा आयातं सूयते । आयातादेव सूते: क्विब् दृश्यते - आयातसूः। एवं क्रमेण योज्यम्। तन्न वक्तव्यम्। रूढिशब्दत्वाद् वर्णविकारो दृश्यते, न च ताच्छील्यमभिधीयते । यथा जवतीति जूः। उणादिषु द्रष्टव्यम् इति अपरे। एवं भुव: सज्ञायामन्तरे च गम्यमाने स्वयम्भूः, मित्रभूर्नाम कश्चित् । प्रतिभूर्वणिगधमर्णयोर्दानाय प्रत्ययवचसोऽन्तरे तिष्ठति ।।११५७। [क० च०] क्विप्०। 'पृ पालनपूरणयोः; धुर्वी हिंसार्थः' (८।१६,१।१९४)। सन्दिह्येति हेमः। परार्थ: विभासधुरामित्यकरणात् ।।११५७। [समीक्षा] 'विभ्राट , पुः, धूः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'क्विप' प्रत्यय किया है । पाणिनि का सूत्र है - "भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः क्विप्" (अ० ३।२।१७७)। अत: प्राय: उभयत्र समानता ही है। [रूपसिद्धि] १. विभ्राट्। वि + भ्राज् + क्विप् + सि । 'वि' उपसर्गपूर्वक 'भ्राज दीप्तौ' (१।३४७) धातु से 'क्विप् ' प्रत्यय, सर्वापहारी लोप, जकार को षकार, उसको डकार - टकार तथा विभक्तिकार्य । २ - १२. विभ्राजौ, विभ्राजः। वि + भ्राज् + क्विप् + औ, जस् । पूः, पुरी, पुरः। पृ + क्विप् + सि, औ, जस्। धूः, धुरौ, धुरः, धुक् + क्विप् + सि, औ, जस्। भाः, भासौ, भासः। भास् + क्विप् + सि, औ, जस् । सभी धातुओं से क्विप् प्रत्यय तथा विभक्तिकार्य ।।११५७। ११५८. द्युतिगमोढे च [४।४।५८] [सूत्रार्थ] ताच्छील्य इत्यादि अर्थों में 'द्युत् - गम्' धातुओं से क्विप् प्रत्यय तथा द्वित्व कार्य होता है।।११५८ [दु० वृ०] द्युतेर्गमेश्च क्विब् भवति तच्छीलादिषु द्वे उक्ती च भवतः । दिद्युत् , जगत् ।।११५८। [दु० टी०] द्युति०। 'दिद्युत् ' इति । “द्युतिस्वाप्योरभ्यासस्य' (३।४।१६) इति सम्प्रसारणम्। जगदिति । "यममन०' (४।१।६९) इत्यादिना पञ्चमलोप आतश्चाद् भवति। ह्वयतेश्चेत्येके - जुहूः । एष भाषायां नास्तीति गम्यते "अभ्यस्तस्य च'' (३।४।१५) इति सम्प्रसारणमिह।।११५८।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy