________________
४००
कातन्त्रव्याकरणम्
११५६. भियो रुक् - लुकौ च [४।४।५६ ]
[सूत्रार्थ]
ताच्छील्य इत्यादि अर्थों में 'त्रि भी भये' (२।६८) धातु से 'रुक् - लुक्' प्रत्यय होते हैं।। ११५६ ।
[दु० वृ० ]
भियो रुक् -लुकौ च भवतस्तच्छीलादिषु । भीरुः, भीलुः । भीरुकः, भीलुकः । को बहुलार्थ एव ।। ११५६ । [दु० टी०]
भियो० । रलयोरेकत्वाच्चेल्लत्वं भविष्यति । यथा कपिरः, कपिलः । तदसत् शयालुमधुरयो रत्वलत्वस्यादर्शनात् । प्रयोगानुसारोऽपि गरीयान् ।। ११५६ । [क० च० ]
भियो० । ककारोऽगुणार्थ: तर्हि “भीरुकः, भीलुकः' इति कथमित्याह - को बहुलार्थः । स्वार्थे कप्रत्यय इत्यर्थ: ।। ११५६ ।
[समीक्षा]
"
,
कातन्त्रकार 'रुक् ' प्रत्यय से भीरुः, 'लुक्' प्रत्यय से भीलुः तथा स्वार्थ में 'क' प्रत्यय करके ‘भीरुकः- भीलुक:' प्रयोग सिद्ध करते हैं । परन्तु पाणिनि ने 'क्रुक्’ प्रत्यय से भीरुः, 'लुकन् ' प्रत्यय से भीलुः तथा वार्त्तिककार ने 'क्रुकन्' प्रत्यय से 'भीरुक: ' शब्दरूप सिद्ध किया है । फलतः कातन्त्रकार की योजना उत्कर्षाधायिका कही जा सकती है । पाणिनि का सूत्र है - "भियः क्रुक्लुकनौ” (अ० ३।२।१७४ )। [रूपसिद्धि]
१- २. भीरुः । ञि भी भये + रुक् + सि । भीलुः । भी + लुक् + सि । 'भी' धातु से 'रुक्- 'लुक' प्रत्यय तथा विभक्तिकार्य ॥ ११५६ । ११५७. क्विब् भ्राजि - पृ- धुर्वी भासाम् [४।४।५७]
[ सूार्थ ]
ताच्छील्य इत्यादि अर्थों में 'भ्राज् - पृ-धुर्व् - भास् ' धातुञ्त्रों से 'क्विप् ' प्रत्यय होता है ।। ११५७ ।
[दु० वृ० ]
एषां क्विब् भवति तच्छीलादिषु। विभ्राद्, विभ्राजौ विभ्राजः । पूः, पुरौ, पुरः । धूः, धुरौ, धुरः। भा:, भासौ, भासः। ताच्छीलिकतृन्बाधनार्थं पुनः क्विब् - ग्रहणम्। ११५७।
[दु० टी० ]
क्विब् वचिप्रच्छिश्रिद्रुश्रुप्रुज्वां क्विब् दीर्घश्चेति वक्तव्यम् । दीर्घबलाच्च वचिप्रच्छ्योर्न