________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [क० च०]
ततो०। अथ ततोग्रहणं किमर्थम्, अनन्तरत्वाद् विशेषणत्वेन तस्येत्यनुवर्तिष्यते, ततस्तस्य चेक्रीयितान्तस्य यातेर्वरो भवतीत्यर्थो भविष्यति? सत्यम्, सुखार्थम्। ततो यातेरपि तिनिर्देश:। 'यायावरः' इति कथं यलोपः, न च "यस्याननि" (३।६।४८) इत्यनेन लोपो व्यञ्जनपरत्वाभावात्, न वा "य्वोर्व्यञ्जनेऽये" (४।१।३५) इत्यनेन लोपः, "अस्य च लोपः" (३।६।४९) इत्यनेन लुप्तस्याकारस्य 'स्वरादेश: परनिमित्तक: पूर्वविधिं प्रति स्थानिवदिति व्यञ्जननिमित्तासम्भावाद् इत्याह- वर इति । इदं तु "न पदान्त०" ( का ० परि० १०) इत्यादिना निषेधादभ्युपगमेनोक्तम्, अन्यथा लोपविधित्वात् कुत: स्थानिवद्भावः ॥ ११४६ ।
[समीक्षा]
'यायावरः' शब्दरूप के सिद्ध्यर्थ दोनों ही आचार्यों ने चेक्रीयितप्रत्यत्यान्त 'या' धातु से 'वर' प्रत्यय किया है । पाणिनीय चकारानुबन्ध से कोई विषमता नहीं आती । पाणिनि का सूत्र है- “यश्च यङः” (अ० ३।२।१७६)। अत: उभयत्र प्राय: समानता ही है।
[रूपसिद्धि
१. यायावरः। या + वर + सि । चेक्रीयितप्रत्ययान्त ' यायाय' धातु से प्रकृत सूत्र द्वारा 'वर' प्रत्यय "अस्य च लोप: " (३।६।४९ ) से 'य' प्रत्यय घटित अकार का लोप, "खोर्व्यञ्जनेऽये " (४।१।३५) से यकारलोप तथा विभक्तिकार्य ।। ११४६ ।
११४७. कसिपिसिभासीशस्थाप्रमदां च [४।४।४७] [सूत्रार्थ
ताच्छील्य इत्यादि अर्थों में 'कस् - पिस् - भास् -ईश् - स्था-प्रमद् ' धातुओं से 'वर' प्रत्यय होता है ।।११४७।
[दु० वृ०]
एषां वरो भवति तच्छीलादिषु । कस्वरः, पेस्वरः, भास्वरः, ईश्वरः, स्थावरः, प्रमद्वरः ।। ११४७ ।
[दु० टी०]
कसि० । कसिपिसिभ्यां तृनि प्राप्ते भासेरीशेश्च रुचादित्वाद् यौ प्राप्ते तिष्ठतेरुकञ्यपि सृकमेत्यादिवचनात् , प्रपूर्वान्मदेश्च तृनि प्राप्ते वचनमिदमारभ्यते ।। ११४७ ।
[क० च०]
'कसि०। 'कसि गतिशातनयोः, पिष्ल संचूर्णने, कास भासू दीप्तौ, ईश ऐश्वर्य' (२।४८;६।१२,३।४४०;२।४४) । तिष्ठतेरुकअपीति टीका । न केवलं "ग्लाम्लास्था." (४।४।१९) इत्यादिना स्नुप्राप्ते इत्यपिशब्दार्थः ।। ११४७।
[समीक्षा]
'ईश्वरः, स्थावरः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'वर' प्रत्यय किया है । पाणिनीय चकारानुबन्ध से विषमता नहीं कही जा सकती । अत: