________________
३९२
कातन्त्रव्याकरणम्
विषयः, तत्र चान्तग्रहणं साक्षात् चेक्रीयितार्थमित्युक्तम् , निरपेक्षलोपे च प्रयोजनं बोभीतीत्यादौ गुणादिकम् , अन्यथा सापेक्षलोपे "प्रत्ययलुकां चानाम्'' (४।१।४) इति प्रतिषेध: स्यात् । निरपेक्षे तु न निषेधः, श्रुतत्वाद् यस्मिन्नेव प्रत्यये परे धात्वेकदेशो लुप्तस्तस्मिन्नेव यत् प्राप्तं तनिषिध्यते इति तत्रोक्तत्वात् । अतो निरपेक्षलोपाश्रितः। अथ योगविभागेन यदुक्तं तत् किं पाणिनेर्मतवत् सर्वत्र? किं प्रयोगानुसारेण? इत्याहतत्पनरिति। तर्हि भवन्मते किं प्रमाणमित्याह - अन्येष्वित्यदादौ पठ्यते इति । अथ ईटा कथमलो बाधनं क्रियते, नैवम् ईट् आगम:, अल् तावत् प्रत्यय इति।।११४५।
[समीक्षा]
'लोलुवः, पोपुवः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में चेक्रीयितसंज्ञक 'य' प्रत्यय का लुक् किया गया है। पाणिनि का सूत्र है - "यडोऽचि च" (अ० २।४।७४)। इस प्रकार पाणिनीय ङकारानुबन्ध के अतिरिक्त अन्य प्रकार की तो उभयत्र समानता ही है ।
[रूपसिद्धि]
१. लोलुवः। लू + य + अच् + सि । चेक्रीयितप्रत्ययान्त 'लोलूय' धातु से 'अच्' प्रत्यय, प्रकृत् सूत्र से 'य' का लुक्, ऊकार को उवादेश तथा विभक्तिकार्य ।
२. पोपुवः। पू + य • अच् + सि । 'पोपूय' धातु से 'अच् ' प्रत्यय आदि कार्य पूर्ववत् ।। ११४५ ।
११४६. ततो यातेर्वरः [४।४।४६] [सूत्रार्थ
ताच्छील्य इत्यादि अर्थों में चेक्रीयितप्रत्ययान्त 'या' धातु से 'वर' प्रत्यय होता है ।। ११४६ ।
[दु० वृ०]
ततश्चेक्रीयितान्ताद् यातेर्वरो भवति तच्छीलादिषु । यायावर:। वरे विषयभूतेऽस्य च लोपे यस्य व्यञ्जने लोप: स्यात् ।। ११४६ ।
[दु० टी०]
ततो०। यातेर्वरो भवति तस्य यातेर्लुक् सम्भावयेत्, अतस्ततोग्रहपमित्याहततश्चक्रीयितान्तादित्यादि। यातेरिति तिबनिर्देश:। स्पष्टार्थोऽन्यथाकारान्ताच्चेक्रीयितान्तादित्यपि प्रतिपद्येत ।। ११४६ ।
[वि० प०]
ततो०। वर इत्यादि। 'परनिमित्तको हि स्वरादेशः स्थानिवद भवति', तेन 'वर' इत्यकारलोपस्य स्थानिवद्भावस्याभावाद् व्यञ्जननिमित्तमेव भवति “य्वोर्व्यञ्जनेऽये” इति स्यादेव लोप इत्यर्थः। “यस्याननि'' (३।६।४८) इत्यस्य चाविषय एव स्वरपरत्वात्।।११४६।