________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
३९१
[दु० वृ०]
तस्य चेक्रीयितस्य लुग् भवति अचि परे तच्छीलादिषु । लोलुवः, पोपुवः । व्यञ्जनान्तात् सिद्ध एव । केचिद् योगं विभजन्ति । तेन बोभवीति, रारीति सिद्धम् ।।११४५।
[दु० टी०]
तस्य०। तद्ग्रहणं षष्ठ्येकवचनान्तमप्रधानस्यापि चेक्रीयितस्यानुवर्तनार्थम् , अन्यथा चेक्रीयितान्तानां यजिजपिदन्शिवदां लुगचि सम्भाव्येत । केचिद् इत्यादि । "तस्य लुग् '' इत्येकयोगस्ततोऽचीति द्वितीयः। अच्येव नियमात् पूर्वविधिरनित्यो निरपेक्षस्तेन वा लुक् चेक्रीयितस्येति न वक्तव्यं स्यात्। प्रयोगानुसारेण कियन्त एव भाषायां दृष्टाः न सर्वे। तथा च 'बोभवीति' भट्टिकाव्ये निबद्धम्। अन्ये तु सर्वे एव छान्दसा इति प्रतिपद्यन्ते, तदिह प्रमाणम्।।११४५।
[वि० प०]
तस्य०। "प्रत्ययलुकां चानाम्'' (४।१।४) इत्यचोऽगुणत्वादुवादेशः। व्यञ्जनान्तादिति। "यस्याननि'' इत्यनेनेत्यर्थः। तत्र हि व्यञ्जनात् परस्येत्युक्तम्। इह स्वरान्तात् लोपो दर्शितः। केचिदित्यादि। तस्य लगित्येकयोगः। अचीति द्वितीय:, अच्येवेति नियमार्थः। तेन पूर्वयोगो निरपेक्षो विकल्पेन भवति। अतो वा लुक् चेक्रीयितस्येति न वक्तव्यं भवति। तत् पुनर्भाषायां प्रयोगानुसारेण वेदितव्यम्, न सर्वत्र। तथा च भट्टिकाव्ये बोभवीति दृश्यते। अन्ये तु सर्वे एव चेक्रीयितलुगन्ताश्छान्दसा इति प्रतिपत्रास्तदत्र प्रमाणम्। 'चर्करीताद् वा' इतीट, अदादौ चेदं पठ्यते इति अविकरणस्य लुक् ।।११४५।
[क० च०]
तस्य०। तद्ग्रहणादेकस्यापि चेक्रीयितान्तशब्दस्य तच्छब्देन सम्बन्धः, अन्यथा अनन्तरत्वाच्चेकीयितान्तानां यजिजपिदन्शिवदामनुवृत्तिः सिद्धव, किन्तच्छब्देनेत्याह - तस्येति। अथ 'लोलुवः, पोपुवः' इति स्वरान्तादेव दर्शितम्, व्यञ्जनान्ताद् धातो: कथन दर्शितमित्याह - व्यञ्जनान्तादिति। केचिदिति। अस्य सूत्रस्यान्ये वृत्तिकारा इच्छन्ति। पञ्जी - केन सूत्रेण सिद्धमित्याह - यस्याननीति। तर्हि तेनैव सिद्ध किमनेनेत्याह-तत्र व्यञ्जन इति तस्य लुगिति तर्हि अनेनैव सिद्ध किमचीत्यनेनेत्याह-अच्येवेति। एतेन सिद्धे सत्यारम्भो विधिनियमाय भवन् अच्येव परतो नान्यस्मिन्निति नियमयतीति भाव:, तर्हि पूर्वसूत्रमनर्थकमित्याह-निरपेक्ष इति। एतेनाचीत्यनेन निमित्तान्तरव्यावृत्त्या पूर्वयोगस्य निरपेक्षता साधिता तर्हि वाग्रहणाभावानित्य एव, यदि निरपेक्षो लोपस्तदा बोभवीतीति नित्यं स्यात्, न त् बोभूयते इत्याह - विकल्पेनेति । विकल्पे च कारणं चेक्रीयितान्तादिति वचनम् , अन्यथा निरपेक्षे लोपे 'पाक्षात् चेक्रीयिताभावात् कुतस्तस्य