________________
३९०
कातन्त्रव्याकरणम्
[दु० वृ०]
चेक्रीयितान्तानामेषामको भवति तच्छीलादिषु । यायजूकः, जञ्जपूकः, दन्दशकः, वावदूक: । सासहि - चाचलि - पापति - वावदयोऽपि चेक्रीयितान्ताः किप्रत्ययान्ता निपात्यन्ते ।।११४४।
[दु० टी०]
चेक्री०। पृथक्समानविभक्तिनिर्देशाद् विशेषणविशेष्यभावोऽवसीयते एव । यदन्तग्रहणमिह तत् स्पष्टार्थमेव। भृशं पुन: पुनर्वा गर्हितं दशतीति चेक्रीयितेऽपि लुप्ने प्रत्ययलोपलक्षणमित्यनुषङ्गलोपः। भृशं पुन: पुनर्वा वदतीति। केचिद् विदिग्रहणं न पठन्ति, तदसत्। प्रयोगदर्शनात् 'कतीह सन्तः खलु वावदूकाः' इति। सासहीति। यथाप्राप्तं तृनादेशप्रसङ्गे ताच्छीलिकेषु कैश्चिद् इति सम्बन्धः। "वन्चित्रन्सि०" (३।३।३०) इत्यादिना नीरागमो भवति पतेरभ्यासस्य। केचिद् धातुमात्रमेव निपातयन्ति। 'सहनशील:, वदनशीलः, चलनशील:, पतनशीलः' इत्यादि। एते छान्दसा एव न वक्तव्या इति भावः।।११४४।
[वि० प०]
चेक्री०। यजिदन्शिभ्यां लपादेर्गादिति यशब्द: "जपादीनां च' (३।३।३२) इत्यनुस्वारागमः । सर्वत्रास्य च लोपे "यस्याननि" (३।६।४८) इति यलोप: । सासहीत्यादि । तच्छीलादिषु निपात्यन्ते कैश्चिदिति सम्बन्धः । अस्य तु मतं वर्णयन्ति छान्दसा एवैते शब्दाः इति ।।११४४।
[समीक्षा]
'यायजूकः' इत्यादि शब्दों के सिद्धयर्थ कातन्त्रकार ने 'वद' धातु अधिक पढ़ी है । पाणिनीय व्याकरण में इसे "उलूकादयश्च'' (उ० सू० ४।४१) इस उणादि सूत्र द्वारा स्वीकार किया गया है। पाणिनि का सूत्र है - "यजजपदशां यङः'' (अ० ३।२।१६६)। अतः प्राय: उभयत्र समानता ही है ।।
[रूपसिद्धि]
१. यायजूकः। यज् + य + ऊक + सि । 'यज देवपूजासङ्गतिकरणदानेषु' (१।६०८) धातु से चेक्रीयितसंज्ञक 'य' प्रत्यय, द्वित्वादि, 'यायज्य' की धातुसंज्ञा, 'ऊक' प्रत्यय, यलोप तथा विभक्तिकार्य ।
२ - ४. जञ्जपूकः। जप् + य + ऊक + सि । दन्दशूकः । दशं + य + ऊक + सि । वावदूकः । वद् + य + ऊक + सि । प्रक्रिया पूर्ववत् ।।११४४।।
११४५. तस्य लुगचि [४।४।४५] [सूत्रार्थ
ताच्छील्य इत्यादि अर्थों में चेक्रीयितसंज्ञक 'य' प्रत्यय का लोप होता है अव् प्रत्यय के परवर्ती होने पर ।।११४५।