________________
३८४
कातन्त्रव्याकरणम्
पाणिनि ने प्रथम सूत्र में 'प्र' उपसर्गपूर्वक केवल ‘जु' धातु का पाठ करके द्वितीय सूत्र में ९ धातुओं के अतिरिक्त 'प्रसू' को भी पढ़ा है।
[रूपसिद्धि]
१. प्रजवी। प्र + जु + इन् + सि । 'प्र' उपसर्गपूर्वक गत्यर्थक 'ज' इस सौत्र धातु से प्रकृत सूत्र द्वारा ‘इन्' प्रत्यय, उकार को गुण, अवादेश तथा विभक्तिकार्य ।
२. प्रसवी। प्र + सु + इन् + सि । 'प्र' उपसर्गपूर्वक 'षु प्रसवे, षु प्रेरणे' (४।१,५।१८) धातु से 'इन्' प्रत्यय आदि कार्य पूर्ववत् ।।११३६।। ११३७. जीण्दृक्षिविश्रिपरिभूवमाभ्यमाव्यथां च
[४।४।३७] [सूत्रार्थ
ताच्छील्य आदि अर्थों में 'जि - इण्' आदि ९ धातुओं से ‘इन्' प्रत्यय होता है ।।११३७।
[दु० वृ०]
एभ्य इन् भवति तच्छीलादिषु। जि - जयी। इण-अत्ययी। दृङ् - आदरी। क्षि - क्षयी। विश्रि - विश्रयी। परिभू-परिभवी। टु वम - वमी। अभ्यम - अभ्यमीः न व्यथते इति अव्यथी। तच्छीलादिविवक्षायां तृन् मा भूदिति वचनम् ।।११३७।
[दु० टी०] ___ जीण। 'क्षिष् हिंसायाम् ' (८।३०) इत्यस्य न ग्रहणम् , षानुबन्धत्वादित्येको ब्रूते। यथा पूर्वसूत्रे सूतिसुवत्योर्न ग्रहणम्, ङानुबन्धत्वादिति। योगविभागः स्पष्टार्थः। अन्यथा प्रेण योगः किं जुसुवोरन्यस्यापीति।।११३७।
[वि० प०]
जीण। किमर्थमिन्विधानम् ? स्वरान्तत्वादलि जयोऽस्यास्तीति इनि सति जयीत्यादिकं सिद्धमित्याह - तच्छीलेति । ननु "न सेटोऽमन्तस्य०" (४।१।३) इति इज्वद्भावप्रतिषेधाद् घञि उपधादीर्घत्वाभावेऽभ्यमीति सिध्यति, वमेस्तूपधादीर्घत्वमस्त्येव वामीति स्यात् ? सत्यम् । वमेरिन् कार्य एव । व्यथेस्तु भिदादित्वात् 'षानुबन्धभिदादिभ्यस्त्वङ्' (४।५।८२) इति कृते व्यथाऽस्तीति इनि न व्यथीति नसमास: ॥११३७।
[क० च०]
जीण०। 'क्षिष् हिंसायाम्' (८।३०) इत्यस्य न ग्रहणम् .लाक्षणिकत्वात् 'निरनुबन्धग्रहणे न सानुबन्धकस्य' इत्यनेन भिन्नयोगात्। 'प्र' इति नानुवर्तते। न्यायोऽस्तीति वन्तुरवर्णतस्तथेति नियमाद् वन्तुरेव भवतीति तदा तद्धितानामाकृतिप्रधानत्वादित्याह- न भविष्यतीति हेमः।। ११३७।