________________
कातन्त्रव्याकरणम्
वेत्यनेन णञानबन्धे ह्रस्वो विभाषया भवतीलार्थ:।
__श्लोकार्थक्रमेणोदाहरणं दर्शयति – पा. इत्यादि। ननु परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेण वत्यर्थं गमयति, यथा सिंहो माणवक इत्यादि। एवमिचीव आनुबन्धे। अणानुबन्ध इव इचीति न सम्भाव्यते कार्यस्याभावादिति वद्ग्रहणं सर्वसादृश्यार्थम्। यस्याः प्रकृतेयेन विशेषेण तस्यास्तेनैव यथा स्याद् इत्याविर्भावायेति। यदि पुनः श्रुतत्वाद् यस्य यदक्तं तस्य तदेव भविष्यतीत्युच्यते, तदा वद्ग्रहणं सुखार्थं भवति तथानुबन्धग्रहणं च। न हि कृति अकारणकारयोः स्थितिरस्तीत्यर्थादनुबन्धोऽवसीयते घञादीनां वुणा । च अकारणकारकरणस्य वैफल्यादिति।।८५६।
[वि०प०]
सिद्धि०। कृत्प्रत्यय इति। कथमेतत्- इह कृद्ग्रहणाभावादाख्यातिकेऽपि णानुबन्धे स्यात्? नैवम् , न णकारानुबन्ध इत्यादिना गुणप्रतिषेधात्। अथ दुष्यते इत्यादावुपधायामिच्कार्याविषयभूतायां गुणप्रतिषेधस्य चरितार्थत्वात्। 'नीयते, चीयते' इत्यादिषु नाम्यन्तस्य वृद्धि: स्यादिति चेत् , तदयुक्तम्। अत्रापि "नाम्यन्तानां यणायि० ' (३।४।७०) इत्यादिना यणि दीर्घ एवास्ति बाधकः। तर्हि 'हन्यते' इत्यत्र घत्वं तत्वमुपधाया दीर्घत्वं च प्रसज्येतेति। किन्तु 'अशिश्रियत् , अदुद्रुवत्' इत्यादौ चणि वृद्धिरपि स्यादिति? सत्यम्। आनुबन्धेन कृता सहचरितो णानुबन्धोऽपि कृत्प्रत्ययो गृह्यते इति न दोषः। आनुबन्धश्च कृत्प्रत्ययो धातोरेव विधातव्य इत्याह - धातोरिति। सर्वातिदेशानां मध्ये कार्यातिदेशस्यैव प्राधान्यम् इत्याह-कार्यस्येति। अत्र इज्वद्भावे सति यावन्ति कार्याणि संभाव्यन्ते तावन्ति सुखार्थं श्लोकद्वयेन दर्शयत्राह-इज्वद्भाव इत्यादि। "हन्तेर्घः" इति "हस्य हन्तेधिरिनिचोः" (३।६।२८) इत्यनेन जनवधोईस्व: इति "अस्योपधायाः" (३।६।५) इत्यादिना कृतस्य दीर्घस्य "जनिवध्योश्च' (३।४।६७) इति ह्रस्व इत्यर्थः। इनीचीति निबन्धनादिति। केवलस्येच: कार्यमतिदिश्यमानं कथमिन्सहितस्यातिदिश्यते इति भावः। पाठ इत्यादि। यथायोग्यं पठनं पठति इत्यादि विग्रहे सर्वत्र भावे कर्तरि च घञ् वुण च कर्तव्यः ।।८५६।
[क० च०]
सिद्धिः । परार्थे प्रयुज्यमान: शब्दो वतिमन्तरेण वत्यर्थं गमयतीति वद्ग्रहणं सुखार्थम्। अथ वद्ग्रहणाभावाद् ञ्णानुबन्धस्य कथं नोपमानता णानुबन्धे यत् कार्य दृष्टं तदिचि भवतीति स्यात् ? सत्यम् , असम्भवात् । अथ घजीन्धेर्तुष् घिणिनोश्चेति ज्णानुबन्धे कृतं सम्भवति, नैवम् , तदा वुणादीनामनुबन्धकरणमनर्थकमेव स्यात् , तस्मान णानुबन्धस्योपमानता अणकारवान् प्रत्यय: स्थितिमानास्तीत्यनुबन्धो गम्यते, यदनुबन्धग्रहणं तत् सुखार्थम् । अथ 'यज्ञ:, हरणम्' इत्यादौ स्थितिमानस्तीति चेत् , न । अन्तरङ्गे इज्वत्कार्ये कर्तव्ये बहिरङ्गो णकारोऽसिद्धः 'असिद्धं बहिरङ्गमन्तरङ्गे' (का० परि० ३३) इति न्यायात् ।
पञ्जिका - उपधायामिच्कार्याविषयभूतायामिति । अथ किमिह इच्-कार्यम् इचि