________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः दर्शितम् , न कृता व्युत्पादिता इत्यर्थः। अथ प्रत्ययानां केवलानां प्रयोगाभावात् कथं तेषां व्युत्पादनम् ? सत्यम् , उपचारात् कृदन्ताः शब्दाः कृतः इहोच्यन्त इत्याह- कृदन्ता इति। अथ शर्ववर्मणा न व्युत्पादिता इति कथं ज्ञातम्, "कर्तृकर्मणोः कृति नित्यम्, न निष्ठादिषु' (२।४।४१, ४२) इति कथमन्यथा षष्ठीविधिनिषेधार्थं सूत्रद्वयमुक्तम्? सत्यम्। सूत्रद्वारा न व्युत्पादिताः। यद्येवं स्यात् तदा कृल्लक्षणं न कृतं स्यादित्याह- कृल्लक्षणमिति]
८५६. सिद्धिरिज्वद् ज्णानुबन्धे [४।१।१] [सूत्रार्थ
'ञ् - ण' अनुबन्ध वाले कृत्संज्ञक प्रत्ययों के परे रहते धातु को इज्वद्भाव होता है। अर्थात् इच् प्रत्यय होने पर उपधासंज्ञक अकार को दीर्घ, ‘जन्-वध्' धातुओं को ह्रस्व, कुटादि धातुओं को गुण तथा आकारान्त धातुओं में आकार को आय् आदेश आदि कार्य प्रवृत्त होते हैं। ये सभी कार्य इज्वद्भाव होने पर भी सम्पन्न होंगे।। ८५६।
[दु०वृ०] आनुबन्धे णानुबन्धे च कृत्प्रत्यये परे धातोरिचीव कार्यस्य सिद्धिरतिदिश्यते
इज्वद्भावेऽस्योपधाया दी? वृद्धिश्च नामिनाम्। हन्ते| जनवधोह्रस्वः कुटादीनां गुणो भवेत्।। स्यादादन्तानामायिश्च इनीचीति निबन्धनात्।
न ह्रस्वो मानुबन्धानामिचि वा वचनेन च।। पाठः, पाठकः। कारः, कारक:। घात:, घातकः। जन:, जनकः। वधः, वधकः। उत्कोटः, उत्कोटकः। पाय:, णयकः। सिद्धिग्रहणं भित्रकर्तृकत्वान्मङ्गलार्थम्।।८५६।।
[दु० टी०]
सिद्धिः। ञ् च ण च ब्णौ, तावनुबन्धौ यस्येति विग्रहः। द्वन्द्वाद् यत् परं तल्लभते प्रत्येकमभिसम्बन्धम् (हैमपरि० १३७) इत्याह-जानुबन्ध इत्यादि। आख्याते तु णानुबन्धे गुणप्रतिषेधान भवति। अथ उपधां प्रति चरितार्थे गुणप्रतिषेधे नाम्यन्तानां वृद्धि: स्यात्, यणि दीर्घविधानादिति। तर्हि 'हन्यते' इति घत्वं तत्वमुपधादीर्घत्वं च प्रसज्येत? सत्यम्, आनुबन्धसहचरित इह णानुबन्धो गृह्यते। साहचर्यं तु प्रकरणकृतमेवाह -कृत्प्रत्यय इति। इचि धातोरेव कार्यम् अतिदेशोऽपि धातोर्भवतीत्याह- धातोरित्यादि। उपमेयस्य सप्तम्यन्तत्वादुपमानादपि सप्तम्यन्ताद् वतिरित्याह- इचि वेति। निमित्तादयोऽतिदेशाः शास्त्रान्तरे निरूपिता:। कार्यातिदेशस्य प्राधान्यादाह- कार्यस्येति। सम्बन्धे षष्ठी कर्तरि वा। सिधेरकर्मकत्वात् कार्येण सिध्यते निष्पद्यते इत्यर्थः। विवक्ष्यमाणे शास्त्रातिदेशे वा न कश्चिद् दोष इति। इज्वद्भावे यानि कार्याणि तानि सुखार्थं श्लोकेन समुच्चिनोति - अस्योपधाया इत्यादि। इनीचीति निबन्धनादिति। इनि कारिते इचि परे इति विशेषणविशेष्याभावात् केवलम् इजुक्तं कार्यं कथं मानुबन्धानामिचि