SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् कृतमित्यर्थः। तथा चाहुः अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्तीति। अभिधानं शब्दः, स एव लक्षणं नियामकमेषां न सूत्रमित्यर्थः। तर्हि केन नाम कृतः कृता इत्याहकात्यायनेनेति। कात्यायनेन वररुचिना। विगता बुद्धिर्येषां ते विबुद्धयः, तेषां प्रतिबद्धि: प्रतिबोधः, तदर्थाय। अन्यथा प्रकृतिप्रत्ययविभागेषु मन्दधियो मुह्यन्तीति भावः। [क० च०] नम: शिवाय। अग्रे मङ्गलार्थस्य सिद्धशब्दस्योपादानाद् "आरुत्तरे च वृद्धिः" (३।८।३५) इत्यन्ते वृद्धिग्रहणस्य तथैवोपादानाच्च भिन्नकर्तृकत्वमुपस्थितम्. पत्रापि शर्ववर्मणा कथमुपेक्षितम्, तमन्तरेण केन वा कृता इत्युपेक्षाकारणं ग्रन्थस्य कटत्वं च प्रतिपादयन्नाह- वृक्षादिवदिति। ननु कथमत्रोपमानोपमेयभावः सादृश्याभावात्। तथाहि वृक्षशब्दः व्रश्चे: सक् इत्यनेन व्युत्पादितोऽपि प्रकृतिप्रत्ययार्थमुत्सृज्य समुदाये शक्तः। पाचकशब्दस्तु प्रकृतिप्रत्ययार्थसमुदायेनैव वचनानुकूलकृतिमति वर्तमानोऽवयवे शक्तः? सत्यम्, नात्र सर्वथा सदृशत्वमाश्रितम्, किन्तु प्रसिद्धत्वेनैव। यथा वृक्षशब्द: प्रसिद्धो विशिष्टविषयत्वेन, तथा पाचकशब्दोऽपि, तत् किं समुदायार्थेनावयवार्थेन वेति शेषः, नात्र विशेषः। अथ कृतिशब्देन पण्डित एवोच्यते तेन न कृता इत्युक्ते तदितरेण मूर्खण किं कृता:? [अधर्मामृतवन्न विपक्षे वर्तते यतः।] सत्यम् , कलापाख्यव्याकरणशास्त्रप्रस्तावादिह कृतिशब्देन शर्ववर्मोच्यते। तथा चोक्तम् अर्थात् (वाक्यात्) प्रकरणाल्लिङ्गादौचित्याद् देशकालतः। शब्दार्थास्तु विभज्यन्ते न रूपादेव केवलात् ।। (वा. प. २।३१४)। तद् यथा- पीनोऽयं वटुर्दिवा न भुङ्क्ते, भोजनं विना पीनत्वानुपपत्तिरिति रात्राविति गम्यतेऽर्थात्। प्रकरणाद् यथा सैन्धवमानयेति भोजनकाले प्रयुक्ते लवणमेवानीयते नाश्वादिरिति। लिङ्गाद् यथा मित्रोऽयं भातीत्युक्ते पुंलिङ्गत्वात् सूर्य एव प्रतीयते न सखा, तत्र नपुंसकत्वान्मित्रशब्दस्य। औचित्याद् यथा— सुरालयं प्रविशति ब्राह्मणः। अत्र सुराणां देवानामालयः, तथा सुराया मदिराया आलय इति उभयार्थसम्भवे तत्र ब्राह्मणशब्दस्य सानिध्याद् देवालय एवेति। देशाद् यथा- मुण्डयितारो वधूमूढामिति विधिवाक्ये देशविशेष एव प्रतीयते न सर्वत्र। कालाद् यथा- वर्षासु हरी रौति। यद्यपि हरिशब्दो जनार्दनवाचकस्तथापि भेक एव प्रतीयते वर्षाशब्दप्रयोगात्। ननु कात्यायनमुनेरयं ग्रन्थस्तत् कैथं वररुचिना कृतमिति? सत्यम्, कात्यायनो मुनिर्वररुचिशरीरं परिगृह्य शास्त्रमिदं प्राणैषीदिति किंवदन्तीति। अर्थप्रतीतिं करोतीति कृत् कर्तरि क्विप्। यद् वा धातो: परतः क्रियते इति सम्पदादित्वात् कर्मणि क्विप्। न च सम्पदादित्वाद् भावे एव क्रियतामिति वाच्यम्। तथा च तत्रैवोक्तम्- सम्पदादित्वात् क्विब् भावे कारके चेति। अत एव प्रतिपाद्यतेऽसाविति प्रतिपदिति कर्मण्युदाहृतम्। पञ्जिकायाम् अथ वृक्षशब्दस्य समुदाये शक्तिः पाचकशब्दस्यावयव इति कथं सादृश्यमित्याह- यथेति। एतेनैकदेशेनैव सादृश्यमिति
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy