________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
दृष्टम्, इज्-लिखितं वा ? तत्राद्ये अबोधीत्यत्र इचि दृष्टस्य कार्यस्यातिदेशे गुणश्च स्यात, कथमिच्कार्याविषयभूतत्वम् । द्वितीये तु 'उत्कोट:' इत्यादौ गुणो न स्यात् , न हि कुटादीनां गुण इलिखित इति, इनिचट्प्रत्ययेभ्योऽन्येषु प्रत्ययेषु कुटादीनां गुणो न स्यात्। अर्थाद इनिचट्सु गुण इत्यर्थादेवेचि गुणत्वमिति न इलिखितो गुण: । तथा 'भेदकः' इत्यत्र वुणो णकारस्य "न णकारानुबन्ध०" (३।५।७) इत्यादिना अगुणत्वे गुणो न स्यात् , इलिखितकार्यस्याभावात् ? सत्यम् । इग्लिखितमेवातिदिश्यते, तर्हि कुटादीनां कथं गुणश्चेद् उच्यते । अयमपि इग्लिखितः । तथाहि कुटादेरनीत्यादौ प्रसज्यप्रतिषेधः, तस्य च क्रियासम्बन्धः, अतो वाक्यार्थद्वयं सामान्येन कुटादिरगुणो भवतीत्येकं वाक्यम् । इनिचट्सु अगुणो न भवतीति द्वितीयम् । अथ इङ्ग्लिखितमिदं तर्हि भेदक इत्यादौ कथं गुणश्चेदुच्यते - चेक्रीयितं तावदाख्यातिकमेव, तत्साहचर्याण्णकारानुबन्धोऽप्याख्यातिक एव गृह्यते, अतः कृति णानुबन्धे तस्याप्रसङ्गः ।
यद् वा तस्मादिचि दृष्टमेव कार्यमतिदिश्यते, तथापि न दोषो (दृश्यते) दुष्यते इत्यत्र "सणनिटः'' (३।२।२५) इत्यादौ णकारानुबन्धबलानाम्युपधस्य शिडन्तस्याख्याते णकारानुबन्धमाश्रित्यागुणकार्यमेव प्रवर्तते न इज्वत् कार्यमिति ज्ञापकं भविष्यति, अन्यथा णकारो व्यर्थ: स्यात् , तेन विनापि गुणस्य सिद्धिः । अन्ये तु 'गृह्यते' इत्यत्र इच्कार्यविषयभूतत्वं चरितार्थं 'दुष्यते' इत्यत्रापि विषयीकरोतीत्याहुः । अथ "सिजाशिषोश्चात्मने" (३।५।१०) इत्यत्रात्मनेग्रहणं गुणबाधिका वृद्धिरिति ज्ञापनार्थमित्युक्तं तत् कथमिह यणि अगुणबाधिका वृद्धिरिति ? सत्यम् । या हि नामिश्रुत्या वृद्धि: सैव गुणबाधिकेति तत्रैवोक्तम् । इह तु कार्यातिदेशपक्षेऽनेनैव विधीयते । न चात्र नामिश्रुतिरस्ति केवलमादायात इत्यदोषः ।तर्हि ‘आदीध्यकः, आवेव्यकः' इत्यत्र न कथं वृद्धिः, स्थिती गुणबाधिका वृद्धिरिति न भवति? सत्यम् , कार्यातिदेशपक्षेऽपि यस्य यदुक्तं तस्य तदेव श्रुतत्वाद् भवति, न हि इचि परे दीधीवेव्योर्गुणवृद्धिरुक्ता येनातिदिश्यते इति, तर्हि दीधीवेव्योरित्यत्र ‘आदीध्यकः' इति पदे गुणबाधिका वृद्धिरिति वृद्धेरभावाद् यत्वमिति कथमुक्तं टीकायाम् ? सत्यम् । शास्त्रातिदेशपक्षे नामिश्रुतिरस्ति, यतो आनुबन्धे कृतीति आनुबन्धः कृदेव कथं निश्चितं धातुरपि आनुबन्धः सम्भवति, यथा अहन् कर्ता । अत्र आनुबन्धे कृधातौ अहत्रिति हन्धातोरुपधाया दीर्घः कथं न स्यात्, नैवम् । इच्पत्ययेन साहचर्याद् आनुबन्धोऽपि प्रत्यय एव न धातुरिति । केवलस्य इच इति यद्यपि घटतेरिनन्तस्य वुणि सति इचि वेत्यस्य विषय:, तथापि न भवतीत्यर्थः, किन्तु "मानुबन्थानाम्"