________________
३८०
कातन्त्रव्याकरणम्
प्राप्तस्तदपवादो युर्विधीयते। ग्रन्थमनुसरति सन्त्रिपतति उत्पद्यते इत्यत्र न चलनार्थता, तत् कथं ग्रन्थस्यानुसरण इत्यादि पूर्वेण सिध्येत्। तस्मादर्थान्तरनिवृत्त्यर्थमेवेषाम्पादानम, चलनार्थवत्तिभ्यस्त्वेतेभ्य: पूर्वेण यो क्रियमाणे सकर्मकेभ्योऽप्यभिधानात् कर्तव्यः। तेन नगरस्य सरण इत्यादि सिद्धमिति।।११३२।।
[क० च०]
जुचक्रम्य०। केचिदिति पञ्जी ।केचित् जुचक्रम्यदन्द्रम्यसृपतयश्चलनार्थाः। एते रुचादयो भवन्ति, उदात्तानुबन्धलिङ्गाभावात्। केचिदचलनार्था इति। कथमेतत, न ोकोऽप्यचलनार्थो रुचादिरस्ति। अत एव कश्चिच्चलनार्थो रुचादिरिति पाठं करोतीति दुर्गादित्यः। अस्य तु मते पदिश्चलनार्थो रुचादिरित्यर्थः। तन्नेति सागरः। पदेरकत्वेऽपि उत्पद्यते सम्पद्यते इत्यर्थभेदाच्छब्दभेद इति मतेन बहुत्वम्। अतोऽचलनार्थाः सन्त: पदधातवो रुचादयोऽपिशब्दाच्चलनार्थत्वेऽपि रुचादित्वं पदेरिति बोद्धव्यम। तत्र यथायोगमिति क्रुधिमण्डीत्यादिना चलनार्थे, अचलनार्थे तु रुचादेश्च व्यञ्जनादेरित्यनेनेति। एक इति। चलनार्थानामित्यादि यदुक्तं तदन्ये वदन्ति न त्वयम् , तत् कथं ग्रन्थस्येत्यादि। ननूत्पत्त्याद्यनेकवृत्तेरपि क्रुधिमण्डीत्यादिना युर्न भवति तथापि रुचादेरित्यनेन भविष्यति किमस्योपादानेन? सत्यम्, एवं सत्युकञ्बाधनार्थं बोद्धव्यम्। तथापि यदि वासरूपाश्रयणादित्युच्यते तदा सुखार्थम्। सकर्मकेभ्य इत्यादि। यथा कर्मग्रहणाभावेऽपि पूर्वेणाकर्मकेभ्य एव युर्भवति तथाऽत्रापि अभिधानात् सकर्मकेभ्य इत्युक्ते को दोषः ।।११३२।
[समीक्षा]
'जवन:, ज्वलन:, पतन:' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने प्राय: समान ही प्रत्यय किए हैं । पाणिनीय 'युच् ' प्रत्यय में चकारानुबन्ध की योजना चित्स्वरार्थ है, जिसका कातन्त्र में सर्वथा अभाव है । अत: धातु - प्रत्यय - रूप की दृष्टि से उभयत्र समानता ही कहीं जाएगी । पाणिनि का सूत्र है - "जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपद:' (अ०३।२।१५०) ।
[विशेष वचन] १. 'जु' इति सोत्रो धातुः (दु० वृ०, दु० टी०)। २. अयं तु मन्यते नामी चलनार्थवृत्तयः, किन्तर्हि अर्थान्तरवृत्तयः (वि० प०)। ३. वासरूपाश्रयणादित्युच्यते तदा सुखार्थम् (क० च०)। [रूपसिद्धि]
१. जवनः। जु + यु - अन + सि। गत्यर्थक 'जु' इस सौत्र धातु से प्रकृत सूत्र द्वारा 'यु' प्रत्यय, 'अन' आदेश, गुण, अवादेश तथा विभक्तिकार्य ।
२. चङ्क्रमणः। क्रम् + य = चङ्क्रम्य + यु - अन - सि । 'क्रमु पादविक्षेपे' (१।१५७) धातु से चेक्रीयितसंज्ञक 'य' प्रत्यय होने पर 'चङ्क्रम्य' धातु निष्पन्न होती है, उससे 'यु' प्रत्यय, 'अन' आदेश, यलोप तथा विभक्तिकार्य ।