________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
अभिलाषण:, प्रपतनः, प्रपदनः । चलनार्थानां ग्रहणं सकर्मकार्थम्, पतिपदिभ्यामुकञ् । बाधितत्वाद् युप्राप्त्यर्थं वचनम् । ताच्छीलिकेषु वासरूपविधिर्नास्तीति । समावेशीऽपि दृश्यते चेद् यथा विकत्थीति विकत्थनः, भासुरम् भास्वरम् भासनम्, जागरिता. जागरूक:, वर्द्धिष्णुः, दर्द्धनः, अपलषिता, अपलाषुकः, अपलषणः इति । एवं मति सकर्मकार्थमित्यन्ये।।११३२।
,
,
[दु० टी० ]
जु०। ‘जु' इत्यादि । सूत्रभवोऽयं धातुर्न गणपरिपटित इत्यर्थः, सूत्रं चेदमेवानुरोधकम्। चङ्क्रम्य इति । क्रमु पादविक्षेपे' (१।१५७)। दन्द्रम्य इति । 'अम द्रम हम्म मीमृ हय गतौ' (१।१६० ) । गत्यर्थात् कौटिल्य एवेति यशब्दः । सृ' इति भौवादिकजौहोत्यादिकयोर्ग्रहणम्। 'लष कान्तौ ' (१।५९१) । चलनार्थानामित्यादि । जुचङ्क्रम्यदन्द्रम्यसृपतपदश्चलनार्थ इत्यर्थः । क्रमुपदी तु केवलं चलनार्थौ रुचादी व्यञ्जनादी च। तेन चङ्क्रमणो ग्रामस्य ग्रामस्थस्य प्रपदन: इत्याद्यर्थः सिद्धो भवति, अर्थान्तरवृत्तय इमे । तथाहि जवतिरयं यद्यपि गतौ तथापि चलनार्थः । किन्तर्हि चलनस्य करणं वेगमाचष्टे । न च वेगचलनयोरभेदः, वेगवत्यपि चलनस्य विशेषणत्वसम्भवात्, यथा पीतिश्चलः, सादिनिश्चलोऽश्ववारः । अनेकस्वरत्वाच्चङ्क्रम्यदन्द्रम्ययोर्वुञ् प्राप्तः । ग्रन्थमनुसरति सन्निपतति उत्पद्यते इति नात्र चलनार्थता सकर्मकेभ्योऽप्यभिधानादित्युच्यमानेऽपि । भाष्यकारस्तु ताच्छीलिकेषूत्सर्गापवादेषु वासरूपविधिर्नास्तीति विज्ञापयति, तेन चिकीर्षिता कटम्, अलंकर्तात्मानमित्यादि न साधु भवतीति ॥ ११३२।
-
३७९
[वि० प० ]
"1
जुचं । चङ्क्रम्य दन्द्रम्य इति । क्रमु पादविक्षेपे' (१।१५७) । 'अम द्रम गतौ' (१।१६०)। गत्यर्थात् कौटिल्य एव यशब्दः । इह केचिच्चलनार्थाः केचिदचलनार्था अपि सन्तो रुचादयः। तत्र यथायोगं पूर्वेणैव युप्रत्ययः सिद्ध इत्याह चलनार्थेत्यादि । जुचङ्क्रम्यदन्द्रम्यसॄणामित्यर्थः । तेन चङ्क्रमणो ग्रामस्येति सिद्धम्। अन्यथा पूर्वत्राकर्मकेभ्य एवोक्तत्वात् कथमेतत् स्यात् । पतिपद्योस्तु " शृकम ० (४|४|३४) इत्यादिना विशेषविहितेनोकञा बाधितयोर्युप्राप्त्यर्थमुपादानम् । न च वासरूपन्यायेन युप्राप्तिरिति दर्शयति ताच्छीलिकेष्विति । एतच्च "क्षिपरट०" (४।४।२७) इत्यादौ वुण्ग्रहणेन ज्ञापितम्। तस्य प्रायिकत्वे दीपे रो युं बाधते इत्यादिना वक्ष्यति इत्यालोच्य परमतमाशङ्कयाहसमावेशोऽपीति । वासरूपस्येति शेषः ।
-
एवं सतीति । तेन 'ग्रामस्य प्रपतन, ग्रन्थस्य प्रपदन:' इति सिद्धम् । एकेऽन्ये । अयं तु मन्यते नामी चलनार्थवृत्तयः, किन्तर्हि अर्थान्तरवृत्तयः एव गृह्यन्ते । तथाहि जवतिरयं यद्यपि गतौ पठ्यते तथापि न चलनार्थः यस्मादसों चलनस्य करणं वेगमाह-यथा वेगेन चलति । चङ्क्रम्यदन्द्रम्ययोश्चलनार्थयोरप्यनेकस्वरत्वाद् वुञ्