________________
३७७
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [समीक्षा]
'क्रोधनः, मण्डनः' आदि शब्दों के सिद्ध्यर्थ कातन्त्रकार ने 'यु' प्रत्यय तथा पाणिनि ने 'युच्' प्रत्यय किया है । उनके दो सूत्र हैं - “चलनशब्दार्थादकर्मकाद् युच्, क्रुधमण्डार्थेभ्यश्च' (अ०३।२।१४८,१५१)। पाणिनीय चकारानुबन्ध चित्स्वरविधान के लिए है । कातन्त्र में वैदिक शब्द सिद्ध नहीं किए गए हैं। अत: उभयत्र प्राय: समानता ही है ।
[रूपसिद्धि]
१. क्रोधनः। क्रुध् + यु - अन + सि । 'क्रुध रोषे' (३।६८) धातु से प्रकृत सूत्र द्वारा 'यु' प्रत्यय, 'अन' आदेश, उपधागुण तथा विभक्तिकार्य ।
२-७. मण्डनः। मडि + यु - अन + सि। भूषणः। भूष् + यु - अन + सि। चलनः। चल् + यु - अन + सि। कम्पनः। कम्पृ + यु - अन + सि । शब्दनः। शब्द + यु - अन + सि। रवणः। रु + यु - अन + सि। प्रक्रिया प्रायः पूर्ववत्।। ११३०।
११३१. रुदादेश्च व्यञ्जनादेः [४।४।३१] [सूत्रार्थ)
ताच्छील्य आदि अर्थों में रुदादिगणपठित धातुओं के अन्तर्गत व्यञ्जनादि धातुओं से 'यु' प्रत्यय होता हैं ।।११३१।
[दु० वृ०]
रुदादेर्गणाद् व्यञ्जनादेर्युर्भवति तच्छीलादिषु। येभ्य आत्मनेभाषः श्रूयते ते रुचप्रकारा गणे ङानुबन्धवर्जिता इति। रोचन:, वर्धन:, वर्तनः। रुचारिति किम्? भविता, शयिता। व्यञ्जनादेरिति किम्? एधिता। आदिग्रहणं किम्? जुगुप्सनः, तितिक्षण:, मीमांसन:, बीभत्सन: इत्यपि स्यात्, एभ्योऽन्ये रुचादयो व्यञ्जनान्ता इति। कथं वसिता वस्त्रम्? अभिधानाद् इहाप्यकर्मकेभ्य इति।। ११३१।
[दु० टी०]
रुचा०। आदीत्यादि । ननु चात्राप्यस्य च लोपेन भवितव्यमनेनेति विषयसप्तमीत्वात्? सत्यम्। व्यञ्जनेन तदन्तविधिविज्ञानाद् भूतपूर्वात् स्वरान्ताः स्याद् , न पुनरादिग्रहणम् अननीति विषयसप्तमीमपि ज्ञापयितुं शक्नोति ।।११३१।
[वि० प०]
रुचादेः। आदीत्यादि। व्यञ्जनादित्युक्ते तदन्तविधिना व्यञ्जनान्तादिति स्यात् ततो जुगुप्सादिभ्यः स्वरान्तेभ्यो व्यावृत्ति: स्यात् । आदिग्रहणे तु अन्तस्याविशेषितत्वात् स्वरान्तेभ्योऽपि भवति। ननु यदा अननीति विषयसप्तमी तदा बुद्धिस्थे प्रत्यये प्रागेवास्य च लोपे एते व्यञ्जनान्ता एवेत्यर्थाद् व्यञ्जनग्रहणम् आदिविशेषणं भविष्यति न तदन्तस्य विशेषणम् , न हि रुचादि: कश्चिदपर: स्वरान्तोऽस्ति, यद्व्यवच्छित्तये तदन्तो विशिष्यते? सत्यम् , तदन्तविशेषणबलाद् भूतपूर्वस्वरान्तेभ्योऽपि व्यावृत्तिर्मन्येत, परसप्तमीपक्षे तु तदन्तविशेषणव्यावृत्तिविषयतया जुगुप्सादीनां सर्वथा न स्याद् इत्यादिग्रहणम् ।।११३१।