________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः ११२१. शमामष्टानां घिणिन् [४।४।२१] [सूत्रार्थ
ताच्छील्य आदि अर्थों में 'शम् - दम् - तम् - श्रम् - प्रम् - क्षम् - क्लम् - उन्मद्' धातुओं से ‘घिणिन् ' प्रत्यय होता है ।।११२१ ।
[दु० वृ०]
शमादीनामष्टानां घिणिन् भवति तच्छीलादिषु । शाम्यतीति शमी। एवं दमी, तमी, श्रमी, भ्रमी, क्षमी, क्लमी, उन्मादी । अष्टानामिति किम् ? असिता ।।११२१॥
[दु० टी०]
शमा०। शमादीनामिति बहुवचनं गणस्य संसूचकम् , मदिपर्यन्ता अष्टौ भवन्तीति। अथ कथम् उन्मादी। “मदिपतिपचामुदि" (४।४।१७) इतीष्णुचा भवितव्यम्, प्रमादी-मादीत्यस्य विषयत्वात्? सत्यम् , व्यक्तिनिर्देश: पूर्ववत् प्रतिषेधो वाऽत्रेति। घिणिनिति घकारः कत्वगत्वार्थः, णकार इज्वद्भावार्थः। इहापि प्रमादीति इकार उच्चारणार्थः। घिणिन् कर्मणि न भवति, अभिधानात्। 'वनं भ्रमिता'। तथोत्तरत्रापि शाकं संपृणक्तीति ।।११२१।
[वि०प०]
शमा०। “न सेटोऽमन्तस्य०" (४।१।३) इति दीर्घप्रतिषेधः कथम् उन्मादीति? "मदिपतिपचामुदि" (४।४।१७) इति विशेषेणेष्णुचा भवितव्यम्, प्रमादीत्यस्य सूत्रस्य विषयत्वात् ? सत्यम् , इहापि व्यक्तिराश्रितेति न दोषः । कथं 'वनं भ्रमिता' इति ? सत्यम् । अकर्मकेभ्य एव घिणिन्नभिधीयते सकर्मकेभ्यस्तृन्नेवेति ।।११२१।
[क० च०]
शमा०। ननु शमिः कथम् अष्टौ एकत्वात् तस्य ? सत्यम् , उपचारात् । शमादौ शमशब्दः, अत एव बहुवचनं गणस्य संसूचकार्थं भवति । अष्टग्रहणं मदीपर्यन्त: शमादिरिति व्यवच्छेदार्थम् । अथ तत्र मदीपर्यन्तः शमादिवृत्करणादेवानुमीयते, किमष्टग्रहणेन। यथा शमादीनां दी? यनीत्यत्र ? सत्यम् । व्यक्त्यर्थं भविष्यति । अत एवाष्टग्रहणात् कात्यायनमते गणे वृत्करणं नास्तीति धातुवृत्तिकारः। पञ्जिका सत्यमिति । एतेन तस्य विषयत्वादस्य व्यक्तित्वादुभयोः समानं बलमिति पाक्षिकी वृत्तिरिष्टेति भावः ।।११२१।
[समीक्षा]
'शमी, भ्रमी, क्षमी' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'घिणिन् । तथा पाणिनि ने 'घिनुण' प्रत्यय किया है। उनका सूत्र है - “शमित्यष्टाभ्यो घिनुण " (अ०३।२।१४१)। दोनों ही प्रत्ययों में 'इन् ' भाग शेष रहता है तथा ‘ण ' अनुबन्ध
१. प्रमादीत्यादौ यथाऽस्य विषयस्तथा उन्मादीत्यत्राप्यस्य विषय इति यावत् (सं० टि० )।