________________
३६५
कातन्त्रव्याकरणम्
१११६. भ्राज्यलंकृञ्भूसहिरुचिवृतिवृधिचरिप्रजनाप
त्रपेनामिष्णुच् [४।४।१६] [सूत्रार्थ]
'भ्राज् - अलंकृ -भू- सह- रुच् - वृत् - वृध्-चर- प्रजन्-अपत्रप' तथा इन्प्रत्ययान्त धातुओं से ताच्छील्य अर्थों के गम्यमान होने पर 'इष्णुच् ' प्रत्यय होता है ।। १११६ ।
[दु० वृ०]
एभ्य इष्णुज् भवति तच्छीलादिषु कर्तृषु । तृनोऽपवादः। भ्राजिष्णुः, अलंकरिष्णुः। अलं भूषणपर्याप्तिवारणेषु। मण्डने युमपि बाधते। भविष्णुः, सहिष्णुः, रोचिष्णुः. वर्तिष्णुः, वर्धिष्णुः, चरिष्णुः, प्रजनिष्णुः, अपत्रपिष्णुः। इनन्तानां छन्दसीति एके। धारयिष्णुः पारयिष्णुः, निराकरिष्णुरिति वक्तव्यम्।। १११६।
[दु० टी०]
भ्राज्य० । अलम्भूषण इत्यादि। अलंकरणशीलः अलंकरणधर्मात् साधुर्वा अलंकरोतीति अलंकरिष्णुः कन्याम् । व्यक्तिरिहाश्रयणीया। अन्यथा "क्रुधिमण्डिचलिशब्दार्थेभ्यो युः" (४।४।३०) इति युना परत्वाद् बाध्यते इतीष्णुचोऽवकाशः। पापान्यलंकरिष्णु:, पापानि वारयतीत्यर्थः । योरवकाशो मण्डनो भूषण इति । अन्य आह-विप्रतिषेधेन सिद्धं तर्हि पूर्वविप्रतिषेधो वक्तव्यः । न वक्तव्यं 'पूर्वपरयोः परविधिर्बलवान्' इति पूर्वशब्दस्यष्टविषयत्वात् सिद्धम् । निरित्यादि वक्तव्यं व्याख्येयम् । निरापर्वस्य कृञस्तेनैव भाव्यमित्ययं मन्यते निराकर्तेति । इष्णजिति चकारं विहाय सविसर्गपाठे सान्तरान्ताशङ्का स्यादिति तन्निरासार्थश्चकारः।। १११६ ।
[वि० प०]
भ्राज्यलम्० । अलमित्यादि । ननु चालंकरष्णुः संग्रामे पापादलंकरिष्णुरिति पर्याप्ती वारणे च सावकाश इष्णच । "धिमण्डिचलिशब्दार्थेभ्यो युः" (४।४।३०) इति युरपि मण्डने । भूषणो मण्डन इति । अत: ‘अलंकरिष्णुः कन्याम्' इति परत्वाद् युरेव स्यादिति ? सत्यम्, इह व्यक्तिराश्रयणीयेत्याहमण्डन इत्यादि । न केवलं तृन्मात्रं युमपीत्यपेरर्थः। वक्तव्यं व्याख्येयम् । इह तृत्रेव प्रमाणम् - निराकर्तेति ।। १११६ ।
[क० च०]
भ्राज्यलम्० । इष्णुजिति । चकारः सान्तरेफान्तशङ्कानिरासार्थः। ष्णुजित्युक्ते 'अलंकरिष्णुः' इति न सिध्यति, अनिट्त्वात् । किमर्थस्यालंशब्दस्येह ग्रहणमित्याहअलंभूषणेति । ननु चेति पञ्जी। दातव्यस्य परत्वसिद्धान्तस्य सावकाशतामुभयोघट यत्राह