________________
आ। कृत्प्रत्ययाध्याये चर्थः क्वन्सुपादः
३६१ [दु० टी०]
तृन्। नकारो । निष्ठादिषु'' (२।४।४२) इति विशेषणार्थः । तच्छील इत्यादि। शील स्वभावः फलनिरपेक्षा प्रवृत्तिः। तच्छब्दन धात्वर्थ उच्यते, तदेव शीलमस्येति विग्रहः । एवं तद्धर्म इति । धर्मः शास्त्रविहिताचारः। साधु करोतीति साधुकारी, तस्य धात्वर्थस्य साधुकारी । साधुशब्द इह क्रियाविशेषणम् । शीलधर्मसाधष्वित्युक्ते प्रतिपत्तिगौरवं स्यात् । शीलादिषु गम्यमानेषु अर्थात् कर्तुरिति । वदतीति वदिता। 'मुडि खण्डने' (१।१०७) इति चुरादौ । मुण्डनं कुर्वन्तीति वा तत्करोतीति इन्। श्राविष्ठायना नाम ऋषयो वधूमूढां मुण्डयन्ति, मुण्डयित्वाश्रमपदं निवेशयन्ति । तस्या मुण्डनं नोच्यते किन्तु तेषां कुलधर्मः । खेलं सलीलं साधुर्योग्यो हित: कुशलोऽभिधीयते, अनेकार्थत्वेऽपि साधुशब्दस्य विवक्षितार्थबलात् कुशलार्थस्य ग्रहणमित्याह-साधुरित्यादि। अत्रेतिअत्र प्रकरणे इत्यर्थ:।।१११५।
[वि० प०]
तृन्। खेलमिति। सलीलमित्यर्थः। यद्यपि कुशलो योग्यो हितश्च साधुरुच्यते। यथा गुडे साधुरिक्षुः। गोषु साधुर्गोधुगिति। तथापि कुशलार्थ एवात्र प्रकरणे साधुशब्दोऽभिधीयत। यथा सामसु साधुरिति।।१११५ ।
[क० च०]
तृन्। मुण्डयितारः इति। श्राविष्ठायना ऋषयः श्रविष्ठदेशोद्भवा जना वा ऊढां वधूं मुण्डयन्ति। मुण्डयितारो मुण्डयित्वा आश्रमपदं प्रवेशयन्ति इति ऊढामण्डनं तेषां धर्म:। साध्विति। साधु यथा स्याद् यथा गच्छतीत्यर्थे गन्ता खेलमिति।। १११५।
[समीक्षा]
तच्छील इत्यादि अर्थों में ‘कर्ता कटान, वदिता जनापवादान् , साधु गच्छति गन्ता खेलम् ' इत्यादि शब्दों के सिद्ध्यर्थ 'तृन्' प्रत्यय का विधान दोनों ही आचार्यों ने किया है । पाणिनि का सूत्र है । “तृन्' (अ० ३।२।१३५)। अत: उभयत्र पूर्ण समानता ही है।
[रूपसिद्धि]
१. वदिता जनापवादान् खलः। वद् + इट् + तृन् + सि । 'वद व्यक्तायां वाचि' (१।६१५) धातु से प्रकृत सूत्र द्वारा 'तृन् ' प्रत्यय, 'न्' अनुबन्ध का प्रयोगाभाव, इडागम, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. मुण्डयितारः श्राविष्ठायना वधूमूढाम्। मुण्ड् + इन् + तृन् + जस् । 'मुडि खण्डने' (१।१०७) धातु से इन्, प्रकृत सूत्र द्वारा 'तृन् ' प्रत्यय, इकार को गुण, अयादेश, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
३. साधु गच्छति गन्ता खेलम्। गम् + तृन् + सि। 'गम्ल गतौ' (१।२७९) धातु से 'तृन्' प्रत्यय, मकार को अनुस्वार, मकार को नकार, लिङ्गसंज्ञा तथा विभक्तिकार्य।। १११५।
१. उपलब्धकातन्त्रधातपा भण्डनार्थको मार्जनार्थकश्च व्वादो दृश्यते न तु चुरादौ ।