________________
कातन्त्रव्याकरणम्
[दु० वृ०] आ क्वे:। क्विपमभिव्याप्य तच्छीलादिषु कर्तृष्वित: प्रत्यया वेदितव्याः ।। १११४। [दु० टी०]
तच्छील० । क्विपमभिव्याप्येति । अभिविधावयमाङ् न मर्यादायामिति दर्शयति "क्विब् भ्राजिपृधुर्वी०" (४।३।६८) इत्यादौ ताच्छील्यादिषु क्विपो विधानात् ।।१११४।
[वि० प०]
तच्छील० । क्विपम ति । एतेन आ क्वरित्याङ् अभिविधौ वर्तते न मर्यादायामिति दर्शितम् । अत: “क्विब् भ्राजिपृधुर्वी०' (४।३।६८) इत्यादो ताच्छील्यादिषु क्विप सिद्धः । तच्छब्देन धात्वों निर्दिश्यते । शीलं स्वभावः फलनिरपेक्षा प्रवृत्तिः। धर्मश्च शास्त्रविहिताचारः। तदेव शीलं यस्य, स एव धर्मो यस्य । साधु करोतीति साधुकारी। तस्य धात्वर्थस्य साधुकारीति विग्रहः ।। १११४ ।
[क० च०]
तच्छील०। सर्वत्र तद्ग्रहणं न क्रियताम्, शीलधर्मसाधुकारिष्विति क्रियताम्। एतेषु गम्यमानेष्वित्युक्ते अर्थात् कर्तुरेव ताच्छील्यादिमत्त्वं प्रतीयते । शीलादयोऽपि धात्वर्थविशेषणं प्रस्तुतत्वात्? सत्यम् । सुखार्थमधिकारोऽयं परार्थः। आ क्वेरिति भिन्नपदम् असमासात् समासे सति आ क्वाति स्यात् । “आङ् मर्यादाभिविध्योः" (अ० २।१।१३) इति पाणिनिसूत्रेण मर्यादाभिविधौ चाव्ययीभावविधानात्। [पाठा० - ननु इत्यादि हेमः। ननु कथमेतद् मर्यादायामव्ययीभावो नाभिविधावित्याह-मर्यादाभिविध्योरिति पाणिनिसूत्रोणोभयत्रापि समासविधानात् । अत: ‘आक्वि' इति कृते स एव सन्देह: स्यात् किं मर्यादाभिविधाविति चाव्ययीभावविधानादिति टीकाकारवचनमेव साधु हेमोक्तवचनमसङ्तमिति सागरः]।। १११४ ।
[समीक्षा
‘कर्ता कटान्, वदिता जनापवादान् , कर्ता कटम्' इत्यादि शब्दों के सिद्धयर्थ 'तच्छील' आदि अर्थों की आवश्यकता होती है । इसकी पूर्ति दोनों ही आचार्यों ने की है । पाणिनि का सूत्र है . “आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु' (अ० ३।२।१३४)। अत: उभयत्र पूर्णत: समानता है ||१११४ ।
१११५. तृन्.[४।४।१५] [सूत्रार्थ] तच्छील, तद्धर्म तथा तत्साधुकारी अर्थों में धातु से 'तृन् ' प्रत्यय होता है ॥ १११५। [दु० वृ०]
तच्छीले तद्धमें तत्साधुकारिणि च कर्तरि धातोस्तृन् भवति । तृजाद्यपवादः। वदिता जनापवादान् खलः । मुण्डयितारः श्राविष्ठायना: वधूमूढाम्। साधु गच्छति गन्ता खेलम् । साधुः कुशलार्थ एवात्र।।१११५।