________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [समीक्षा
‘पवमानः, यजमान:' शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने प्राय: समान ही प्रत्यय किए हैं। कातन्त्रकार ने प्रत्यय के अन्त में 'ङ् ' अनुबन्ध की तथा पाणिनि ने 'न्' अनुबन्ध की योजना की है । पाणिनि का सूत्र है-“पूङ्यजोः शानन् " (अ० ३।२।१२८)। अत: प्राय: उभयत्र समानता है ।
[विशेष वचन] १. शकारः सार्वधातुकार्थः, ङकारोऽगुणार्थ: (क० च०)! २. सुखार्थमिति हेम: (क० च०)। [रूपसिद्धि]
१. पवमानः। पू + शानङ् + सि । पवते । ‘पूङ् पवने' (१।४६५) धातु से प्रकृत सूत्र द्वारा 'शान' प्रत्यय, 'श् - ङ्' अनुबन्धों का प्रयोगाभाव, अन् - विकरण, मकारागम, गुण, अवादेश तथा विभक्तिकार्य ।
२. यजमानः। यज् + शानङ् + सि । यजते । 'यज देवपूजासङ्गतिकरणदानेषु' (१।६०८) धातु से 'शानङ्' प्रत्यय आदि कार्य प्राय: पूर्ववत् ।। ११०८।
११०९. शक्तिवयस्ताच्छील्ये [४।४।९] [सूत्रार्थ]
शक्ति (सामर्थ्य), यौवनादि वयस् तथा ताच्छील्य (स्वभाव) अर्थ के गम्यमान होने पर धातु से 'शानङ् ' प्रत्यय होता है ।।११०९।
[दु० वृ०] __ शक्त्यादिषु गम्यमानेषु धातोः शानङ् भवति । कतीह निघ्नानाः । कतीह कवचमुद्वहमानाः । कतीह नृत्यमानाः । अभिधानाद् वासरूपः शन्तृङ् न स्यात् ।।११०९।
[दु० टी०]
शक्ति०। शक्तिः सामर्थ्यम् । वयः प्राणिनां कालवृतोऽवस्थाविशेषो यौवनादिः। शीलं स्वभाव इति । क्रमणोदाहरति-परस्मैपदादिभ्यः प्रापणार्थ: प्रथमैकाधिकरणार्थश्च ।।११०९।
[वि० प०]
शक्ति०। अस्यात्मनेपदसंज्ञा नास्तीति परस्मैपदिभ्योऽपि भवतीति । अर्थत्रये क्रमेणोदाहरणत्रयं दर्शयति । निघ्नाना इति । गमहनेत्यादिनोपधालोपे "लुप्तोपधस्य च" (३।६।२९) इति घत्वम् ।।११०९।
[क० च०] शक्ति०। परस्मैपदिभ्योऽप्राप्त्यर्थं प्रथमैकाधिकरणार्थं च वच'मिदं न चात्रानश: