________________
२७४
[रूपसिद्धि]
१. पचमानः । पच् आनश् सि । 'डु पचष् पाके' (१।६०३) धातु से प्रत्यय, अन् विकरण, प्रकृत सूत्र द्वारा मकारागम तथा विभक्तिकार्य ।
'आनश्
२. क्रियमाणः। कृ + यण् + आनश् + सि । 'डु कृञ् करणे' (७।७) धातु से आनश् प्रत्यय,, यण् ऋकार को 'रि' आदेश, मकारागम तथा विभक्तिकार्य । ३. करिष्यमाणः । कृ आनश् + सि । 'कृ' धातु से 'स्य' प्रत्यय, इडागम, गुण, सकार को षकार, आनश् प्रत्यय, मकारागम तथा विभक्तिकार्य
+
स्य
।। ११०७।
११०८. पूङ्यजो: शानङ् [४।४।८ ]
[सूत्रार्थ]
'पूङ् पवने' (१।४६५) तथा 'यज देवपूजासङ्गतिकरणदानेषु' (१।६०८) धातु से 'शान' प्रत्यय होता है ।। ११०८ ।
J
-
कातन्त्रव्याकरणम्
-
+
[दु० वृ०]
पूङो यजश्च शानङ् भवति। पवते पवमानः । यजते- यजमानः । आभ्यां कर्तर्ये वानस्थित्यर्थं वचनम् इति एके । भावकर्मणोरानशा भाव्यमिति । प्रथमैकाधिकरणप्रपञ्चार्थमित्यन्ये । बहिष्पवमानं मध्यन्दिनमित्यनवयवार्थ एवायं संज्ञाशब्दः ।। ११०८ [दु० टी०]
पूङ्॰। बहिरित्यादि । अकर्त्रर्थो वर्तमानकालश्चाव्युत्पन्नः एवायं सञ्ज्ञाशब्दः इत्यर्थः । व्युत्पत्तिवादी त्वाह औणादिकोऽयमिति ॥ ११०८|
+
-
-
[वि० प० ]
पूङ् । नञा निर्दिष्टस्यानित्यत्वात् प्रथमैकाधिकरणेऽप्यानशा सिध्यतीत्याहआभ्यामित्यादि। अनवयवार्थ इति । न कश्चिदिहोपपदप्रकृतिप्रत्ययानामवयवानामर्थोऽस्त्रीत्यव्युत्पन्न एवायं सञ्ज्ञाशब्द इति ॥ ११०८।
[क० च० ]
पूङ् । शकारः सार्वधातुकार्थः । ङकारोऽगुणार्थः । वक्ष्यमाणेऽगुणः फलमिह विकरणे गुणः । पूङो ङकारः क्रयादिकस्य पूजो निषेधार्थः । अथ यजतेर्भीवादिकस्य साहचर्यात् पूङोऽपि भौवादिकस्य ग्रहणं भविष्यति । यद् वा पूङोऽत्र शानङो ऽभावेऽतिपूर्वेणानशा भवितव्यम् । अतः को विशेष इत्याह सुखार्थमिति हेमः। ननु बहिष्पवमानशब्देन वेदस्य भागविशेष उच्यते, नात्र वर्तमानकालकर्तृत्वप्रतीतिरस्ति तत्कथमत्र शानङ् इत्याह बहिरित्यादि । मध्यन्दिनमिति । इतिशब्द इवाथें मध्यन्दिनमिवेत्यर्थः । अतो नात्र शानङ्प्रत्ययः । किन्त्वेवंभूत एव सञ्ज्ञाशब्द इति भावः । व्युत्पत्तिवादी त्वाह - औणादिकोऽयमिति ॥ ११०८
-