________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः ३५३
३५३ न हि धातुरदन्तोऽस्तीति । धातोरिति निमित्तसम्बन्धे षष्ठी विज्ञायते धातोर्निमित्तस्य योऽकार इति, यद्येवम् इह न स्यात् करिष्यमाणः, अपर्यस्यमान: समुदायस्य निमित्तत्वान्नैष दोषः । धातोर्निमित्तस्याकारान्तस्येति विज्ञानात् 'पचमानः' इत्यत्र व्यपदेशिवद्भावाद् भविष्यतीति । एवमकारो वर्ण: स कथं वर्णों वर्णस्यावयवो भवति । वर्णेऽप्यादिमध्यान्तभागा: सम्भवन्ति । उच्चैरुदात्तः, नीचैरनुदात्तस्तयोर्मिश्रश्च समाहार: स्वरित: इति प्रतिभागदर्शनात्। तस्मात् संहतिरूपस्य वर्णस्य वर्णान्तरमवयव इति नास्ति विरोध: । अपर आह - किमिह तदन्तविशेषणेन श्रुतस्याकारस्य मकारागमो भवतीत्यकारादिरयं समुदायो मकारान्तो भवतीति को दोषस्तेनास्य वमोर्दी? न भवीति ।।११०७।
[वि० प०]
आन्मोऽन्तः । ननु चान इति सप्तमीनिर्देशात् पूर्वस्य मोऽन्त इत्यागमत्वादस्येति षष्ठी युज्यते, कथमादिति पञ्चमीनिर्देश: सत्यम् , इह पञ्चमीनिर्देशोऽकारमात्रादान इह प्रतिपत्त्यर्थः। तेन ‘करिष्यमाण:' इत शन्त्रानौ स्यसंहितौ शेषे चेति स्येन संहितेऽतिसंश्लिष्टेऽप्याने मोऽन्तो भवतीति ।।११०७।
[क० च०] __ आत्। तस्येति वर्तते उच्चारणार्थवशात् सप्तम्यन्तत्वेन संबध्यते तस्मिन्नान इति, तेन शानङानस्यापि ग्रहणं तस्येति रूपमात्रानुकर्षणार्थम् इत्युक्तमेव । ततः कुतः 'एकानुबन्धग्रहणे न व्यनुबन्धकस्य' (व्या० परि० ४६) इति न्यायात् शानङो न ग्रहणमित्याशङ्का । ननु वर्णस्यावयवो वर्ण: सम्भवति । अत एव वृत्तावकारान्तस्येत्युक्तं तत् कथं पञ्जिकायामागमत्वादस्येति षष्ठी युज्यते इत्युक्तम्? सत्यम्, अस्येत्युत्तेऽकारान्तसमुदायस्यैवागमत्वं भविष्यतीत्यदोषः। यद् वा उच्चैरुदात्तो नीचैरनुदात्तस्तयोर्मिश्रश्च समाहारः इति प्रविभागदर्शनाद् वणे आदिमध्यान्तभागः सम्भवति अभिसंश्लिष्ट इति पञ्जी। संहिता निरतिशयमानन्तर्यम् । अत: स्यसंहितत्वविधानाद् मध्ये वर्णान्तरानुप्रवेशो न सम्भवतीति पञ्चमीबलान्मध्येऽपि विधिरिति ।।११०७।
[समीक्षा ___पचमानः, यजमान:, क्रियमाणः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने मकारागम किया है । पाणिनि ने इसमें 'मुक् ' आगम किया है - "आने मुक् '' (अ० ७।२।८२)। पाणिनीय ‘मुक्' का स्थान निश्चित करने के लिए "आद्यन्तौ टकितौ' (अ० १।१।४६) यह परिभाषासूत्र बनाया गया है । इस प्रकार पाणिनीय प्रक्रिया में गौरव तथा कातन्त्रीय प्रक्रिया में लाघव सन्निहित है ।
[विशेष वचन] १. वर्णेऽप्यादिमध्यान्तभागा: सम्भवन्ति (दु० टी०)। २. संहतिरूपस्य वर्णस्य वर्णान्तरमवयव इति नास्ति विरोध: (दु० टी०)। ३. वर्णस्यावयवो वर्णः सम्भवति (क० च०)।