________________
३५२
कातन्त्रव्याकरणम्
प्रमाणम् । यद् वा भवतु आनाधिकारस्तथापि तस्मिन् परे मध्ये प्रत्ययान्तरं भवन कथन्न स्यात् । यद् वा आस्धातोरन्तस्य आने परे ईकारादेशो भवतीत्यर्थो वा क स्यात् ? नैवम्, यद् ईप्रत्ययः स्यात् तदा आम ईरिति विधिः स्यात् । कार्य कार्यमित्यस्य विपर्ययनिर्देशान्निर्विभक्तिकनिर्देशाच्च नायं प्रत्यय:, तर्हि सगळ स्यात्, नैवम् । पूर्वत्र आनस्य कार्यित्वदर्शनादत्रापि स एव कार्यों प्रतीयते । शश भवतु स एव कार्यौ तथापि दूषणम् आन इति प्रथमान्तत्वेनानुवर्तिष्यते ततश्च आ ईर्भवतीत्यभेदात् समुदायस्यादेशः स्यात् । न च वक्तव्यम् अर्थवशाद् विभक्तितिपरिणाम करिष्यति प्रथमान्तेनैवार्थस्य सम्भवात् ? सत्यम्, तदा प्रश्लेषव्याख्यां करिष्यति तथाहि ‘आ आस:' इति 'आ' इति लुप्तप्रथमा । तेनायमर्थः आसः परस्यानस्याकार ईकारो भवतीत्यर्थः । अस्मिन् पक्षेऽपि दृष्टपरिकल्पनावशात् सप्तम्यन्तेन सम्बध्वन अतः आनस्यैव कार्यित्वं कुत आसः आकारः ईकारो भवतीत्यर्थः । एतदेव मनि कृत्वा पञ्जिकायामुक्तम् अन्तरङ्गत्वादानो वर्तते इति ॥ ११०६।
|
[समीक्षा]
'आसीन:' शब्दरूप के सिद्ध्यर्थ आन्घटित आकार को ईकारादेश दोनों ही आचार्यों ने किया है । " पाणिनि का सूत्र है- "ईदास:" (अ० ७।२।८३)। अतः उभयत्र समानता है ।
[रूपसिद्धि]
१. आसीनः । आस् + आनश् + सि । ‘आस उपवेशने ' (२।४५) धातु से 'आनश् ' प्रत्यय, प्रकृत सूत्र द्वारा 'आन' के आदि में स्थित आकार को ईकार तथा विभक्तिकार्य ॥ ११०६|
११०७. आन्मोऽन्त आने [४।४।७ ]
[ सूत्रार्थ]
‘आन' प्रत्यय के परे रहते पूर्ववर्ती अकार के बाद मकार आगम होता है
।। ११०७।
[दु० वृ० ]
अकारात् परो य आनस्तस्मिन् परेऽकारान्तस्य मकारोऽन्तो भवति । पचमानः, क्रियमाणः, करिष्यमाणः ॥ ११०७ |
[दु० टी०]
अन्मो० । अथ किमर्थं पञ्चमीनिर्देशः स्येन संहितेऽपि संश्लिष्टेऽप्याने मकारागमप्रतिपत्त्यर्थः। अकार इति वर्णग्रहणं ततस्तेन समुदायस्य विशेषणमित्याहअकारान्तस्येति । यद्येवं प्राणनं प्राण आन इति स्थिते आदित्यस्तीति सत्यम् तेषु तच्छब्दानुवर्तनात् तस्मिन्नाने पर इति प्रत्ययप्रस्तावाच्च । अन्य आह धातोरित्यनुवर्तन
J
-