________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
३५१ ___५. चक्राणः। कृ + कान + सि । 'डु कृञ् करणे' (७।७) धातु से 'कान' प्रत्यय, 'कृ' को द्विर्वचनादि, ऋकार को रकार, नकार को णकार तथा विभक्तिकार्य ।
६. व्यतिबवानः। ति + अति + भू + कान + सि । 'वि - अति' उपसर्गपूर्वक '
भूतायाम् । (१।१) धातु से 'कान' प्रत्यय आदि कार्य प्राय: पूर्ववत् ।।११०५।
११०६. ई तस्यासः [४।४।६] [सूत्रार्थ]
'आस् उपवेशने' (२।४५) धातु से परवर्ती आन - प्रत्यय के आदि में स्थित आकार को ईकार आदेश होता है ।।११०६।
[दु० वृ०]
आस: परो य: आनस्तस्यादेरीभवति । आसीन: । तस्येति रूपमात्रानुकर्षणार्थम्, तेन शानङोऽपि - कतीहोदासीनाः सन्ति ।।११०६।
[दु० टी०]
ई०। नन परस्यादेरितीह परिभाषा न प्रयोजयतीति प्रागक्तम , ततश्च वर्णान्तस्य विधिरित्यन्ते स्यात् । न चैतावता तस्य प्रयोजनमिह तस्य ‘आ आ स' इति प्रश्लेष:, आ इत्यत्र षष्ठी प्रथमा वा लुप्यते, तस्यानस्य आ ईकारो भवतीति मनसिकृत्याह - आदेरित्यादि । अथवा आस इति समीपलक्षणा षष्ठी तस्येत्यवयवलक्षणा आस: समीपानस्यावयव ईकारो भवतीति 'व्याख्यानतो विशेषार्थप्रतिपत्तिर्न हि सन्देहादलक्षणम्' (का० परि० ६५)। तस्येत्यादि । न चेदं देश्यम् , तस्य ग्रहणेन विना प्रत्ययान्तरमीकारः स्यादित्यर्थघटनया 'अर्थवशाद् विभक्तिविपरिणामः' (का० परि० २५) इत्यपि न युक्तम् । इह 'आ आसः' इति प्रश्लेषनिर्देशादानस्येति षष्ठी प्रकल्प्यते अनन्तरत्वाद् द्वितीयेऽपि पक्षेऽत्रेत्यनुवर्तते एतस्मिन्नाने आस: समीपवर्ण एवावसीयतेऽर्थात् । उत्पूर्वः 'आस उपवेशने' (२।४५) ताच्छील्ये शानङ् ।।११०६।
[वि० प०]
ई तस्य०। ननु कथम् आदेरिति निश्चितम् । न हीह परस्यादेरिति वचनमाद्रियते, अतो वर्णान्तस्यैव स्यात् ? तदयुक्तम् । तस्येत्यवयवावयविसम्बन्धे षष्ठी, तेनास: परो यः आनस्तस्यावयवस्येति वाक्याथें कथमन्तस्य व्यवहितस्य स्यात् । अथानन्तरसूत्रादानो वर्तते तस्य च प्रथमान्तस्याप्यर्थवशादेव षष्ठ्या योगे सिध्यति किं तस्येत्यनेनेत्याहतस्येति। "शक्तिवयस्ताच्छील्ये' (४।४।९) इति वक्ष्यमाणेन शानङ् स्यात् ।।११०६।
[क० च०]
ई०। तस्येत्यादि । एतेन प्रक्रान्त - प्रकंस्यमानार्थस्तच्छब्दोऽत्र दर्शित: । ननु तद्ग्रहणाभावे आसधातोरीप्रत्ययो भवतीत्यर्थः कथन स्यात् , आनस्याधिकारे किं