________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
भोजनमन्तरेणापि सम्भवाल्लक्षणत्वानुपपत्तेः । न हि शयने भोजनमवश्यम्भावीति । अथान्तरेण शयनं न भोजनम्, यथा अग्निमन्तरेण न धूम इति चेद् एवमेतत् किन्त्वेवं सति भोजनमेव लक्षणं स्यात् शयनस्य । यथाऽग्नेर्धूम इति । नैष दोष:, इह लक्षणशब्दस्य विशेषणार्थत्वाद् इदमुक्तं भवति । क्रियाया लक्षणं विशेषणं यो धात्वर्थस्तस्मिन् वर्तमानाद् धातोरित्यर्थः । तेन तिष्ठन् मूत्रयति, भक्षयन् गच्छतीत्याद्यपि सिद्धम् । ताविति । 'अर्ज षर्ज अर्जने' (१।६५), हेत्विनन्तात् शन्तृङ्, चौरादिकत्वात् स्वार्थिकेनन्तादित्यपरे। अत्राप्यर्जनाध्ययने वसतिक्रियाहेतुस्तयोरभावे तदभावात् । अथ 'वर्षतीति धावति, हन्तीति पलायते' इत्यत्र कथन्न भवति । वर्षणहनने हि धावनपलायनहेतू इति ? न देश्यम् इतिशब्देनैवात्र हेत्वर्थस्य द्योतितत्वात् । क्रियाया इत्यादि । इह कम्पनोत्प्लवनाभ्यां यथाक्रमम् अश्वत्थलघुसञ्ज्ञकौ द्रव्यगुणौ लक्ष्येते न तु क्रियेति व्यावृत्तिः। तर्हि कथमधीयानो वटुरिति वटोर्द्रव्यत्वादिति चेत् ? सत्यम्, प्रथमैकाधिकरणेऽपि पूर्वेणानित्यत्वबलाद् भविष्यति । यदि पुनरानश्च क्रियापेक्षायामित्यनेनैव सिध्यति किमनेन सूत्रेणेत्युच्यते तदा तस्यैव प्रपञ्चार्थमिदं भविष्यति ॥११०३।
[क० च०]
लक्षण०। आभूतादिति । " उणादयो भूतेऽपि " ( ४|४|६७) इति पर्यन्तम्
।। ११०३।
पाणिनि का सूत्र है
[समीक्षा]
'अर्जयन् वसति, शयाना भुञ्जते यवनाः' इत्यादि प्रयोगों के सिद्ध्यर्थ कातन्त्रकार ने 'शन्तृङ् - आनश् ' प्रत्यय तथा पाणिनि ने 'शतृ शानच् ' प्रत्यय किए हैं ।
३४७
-
-
"
"लक्षणहेत्वोः क्रियायाः " ( अ० ३।२।१२६ ) । प्रत्ययों में अनुबन्धों तथा नकार की योजना अपने अपने व्याकरण की प्रक्रिया के अनुसार है। अतः सामान्यतया दोनों में समानता ही है ।
[विशेष वचन ]
१. साधनद्वारेणैव क्रियाया लक्षणम् (दु० टी०)।
२. परसूत्रमेतदेके न पठन्त्येव ( दु० टी० )।
३. तदा तस्यैव प्रपञ्चार्थमिदं भविष्यति (वि० प० ) । [रूपसिद्धि]
१. तिष्ठन्तोऽनुशासति गणकाः । स्था + शन्तृङ् + जस् । 'ष्ठा गतिनिवृत्तौ’ (१।२६७) धातु से प्रकृत सूत्र द्वारा 'शन्तृङ् ' प्रत्यय, 'श् - ऋङ् ' अनुबन्धों का प्रयोगाभाव, “स्थस्तिष्ठ: " ( ३।६।७३) से 'स्था' को 'तिष्ठ' आदेश तथा विभक्तिकार्य ।