________________
३४६
कातन्त्रव्याकरणम्
से प्रकृत सूत्र द्वारा ‘शन्तृङ् ' प्रत्यय, ‘श् - ऋ-ङ् ' अनुबन्धों का प्रयोगाभाव, अन् - विकरण, ‘पचन्त् ' की लिङ्गसंज्ञा, अम् प्रत्यय ।।
२. पचमानं छात्रं पश्य । पच् + आनश् + अम् । ‘पच् ' धातु से 'आनश् ' प्रत्यय, मकारागम, अन् - विकरण तथा विभक्तिकार्य ।
३. पचता छात्रेण । पच् + शन्तृङ् + टा । ‘पच् ' धातु से ‘शन्तृङ् ' प्रत्यय, अन् - विकरण, नकारलोप तथा विभक्तिकार्य । - ४. पचमानेन छात्रेण । पच् + आनश् + टा । ‘पच् ' धातु से 'आनश् ' प्रत्यय, मकारागम, अन् - विकरण तथा विभक्तिकार्य ।
५. हे पचन् ! पच् + शन्तृङ् + सि । ‘पच् ' धातु से शन्तृङ् ' प्रत्यय, अन् -विकरण तथा विभक्तिकार्य ।
६. हे पचमान ! पच् + आनश् + सि । ‘पच् ' धातु से 'आनश् ' प्रत्यय, मकारागम, अन् - विकरण तथा विभक्तिकार्य ।।११०२।
११०३. लक्षणहेत्वोः क्रियायाः [४।४।३] [सूत्रार्थ क्रिया के लक्षण तथा हेतु अर्थ में ‘शन्तृङ् ' एवं 'आनश् ' प्रत्यय होता है ॥११०३१ [दु० वृ०]
आभूताद् वर्तमानाधिकारः । क्रियाया लक्षणे हेतौ चार्थे वर्तमानाद् धातो: शन्तृङानशौ भवत: । तिष्ठन्तोऽनुशासति गणकाः, शयाना भुञ्जते यवना:। हेतौ च - अर्जयन् वसति, अधीयानो वसति । लक्षणं चिह्नम् , जनको हेतुः । लक्षणहेत्वोरिति किम् ? पचति च पठति च । क्रियाया इति किम् ? य: कम्पते सोऽश्वत्थः, यदुत्प्लवते तल्लघु ।।११०३।
[दु० टी०]
लक्षण। अत्र हि स्थानं लक्षणम् , तेन हि अनुशासनक्रिया लक्ष्यते । ननु च ‘शयाना भुञ्जते यवनाः' इति शयनभोजनयोः सहभावित्वं नास्ति, न हि शयने भोजनमवश्यम्भावि, अथ भोजनं शयनेन विना न भवति । यथा धूमोऽग्निनेति। भोजनमेव तर्हि लक्षणं विशेषणं स्यात् शयनस्य न शयनं भोजनस्य ? सत्यम् , अत्र लक्षणार्थ: क्रियान्तरानुवृत्तो यो धात्वर्थो लक्षणं तत्र वर्तमानादिति । तथा च साधनद्वारेणेव क्रियाया लक्षणम् । एवं सति तिष्ठन् मूत्रयति, भक्षयन् गच्छतीति सिद्धम् । ननु च यथा अधीते वटुः, अधीयानो वटुरिति ना निर्दिष्टस्यानादित्वात् सिध्यति, तथा लक्षणहेत्वोः प्रथमैकाधिकरणे शन्तृङानशौ भवतः एव? सत्यम् , प्रपञ्चार्थम्। आनश्च क्रियापेक्षायामित्यत्र प्रथमैवान्तर्भवति परसूत्रमेतदेके न पठन्त्येव । क्रियाया इत्यादि कम्पनोत्प्लवनाख्यद्रव्यगुणौ लक्ष्येते ॥११०३।
[वि० प०]
लक्षण। तिष्ठन्त इत्यादि । अत्रावस्थानेनानशासनं दैवपर्यालोचनं लक्ष्यते इत्यवस्थानं लक्षणं भवति । ननु कथं 'शयाना भुञ्जते यवनाः' इति ? शयनस्य