SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः ३४५ [क० च० ] वर्तमाने० । वर्तते इति वर्तमानः कालः । परिच्छिन्ना क्रियैव हि काल इत्याह वर्तमानक्रियायामिति । अथात्र प्रथमैकाधिकरणविषये शन्तृङ्, आमन्त्रितविषये आनशिति न यथासङ्ख्यं वर्तमान इति निर्देशात् । एकशब्दस्तुल्यवचनः अधिक्रियते नियुज्यतेऽस्मिन् शब्द इत्यधिकरणमर्थः । एकं च तदधिकरणं चेति एकाधिकरणम्, प्रथमाया एकाधिकरणं प्रथमैकाधिकरणम्, न प्रथमैकाधिकरणम् अप्रथमैकाधिकरणम् इति । ननु प्रथमया सहैकाधिकरणता न सम्भवतीत्याह - प्रथमान्तेन चेद् इत्येवं शन्तङानशोरित्यर्थः । ननु यदि शन्तृङानशावव्युत्पन्नौ तदा विशेषणम् अप्रथमान्तेन कथं घटते येन निषेध: ? सत्यम्, वाक्यार्थवशाद् बुद्धयेदं विशेषणं कल्प्यते, क्रियमाणयोः शन्तङानशोः प्रथमान्तेन सह सामानाधिकरण्यं भविष्यतीति यत्रैवायं दृश्यते तत्रैव निषेध इति भावः । अप्रथमैकाधिकरण इत्युक्ते आमन्त्रिते प्रथमान्तेन सामानाधिकरण्ये न स्यादित्यामन्त्रितग्रहणम् । यदि पुनरिति पञ्जी । अथायमेव नञ् कथं न स्यात्, न हि दूषणमेव सिद्धान्तः? सत्यम्, प्रसज्यार्थस्य प्राधान्यात् स एव । तथा चेति । अस्मिन्नेव सूत्रे शन्तृङानशाविति, अन्यथा प्रथमान्तेन सामानाधिकरण्यात् कथं शन्तृङानशाविति भावः। कुर्वन्निति पुंस्त्वाविधेयत्वाद् भक्तिरस्त्रीलिङ्गेऽपि पचत्तर इति शन्तृङ् सत्यनिष्टं स्यात्, तथोत्तरपदेऽपीति। ननु कुर्वन् भक्तिरित्यनेनैव उत्तरपदे दर्शितम्, तत् कथं पुनरुच्यते? सत्यम्, भक्तिरस्येति व्यधिकरणेन बहुव्रीहिणापि कुर्वद्भक्तिरिति स्यात्, अतो नास्त्यत्र क्षतिः । चलत्पताकमित्यत्र सर्वथैव दोष इति पुनरुक्तम् ॥। ११०२। " [समीक्षा] 'पचन्तं पचमानं देवदत्तं पश्य' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'शन्तृङ् - आनश् प्रत्यय किए हैं और पाणिनि के 'शतृ - शानच् ' प्रत्यय हैं । अनुबन्धादि की योजना अपने अपने व्याकरण की प्रक्रिया के अनुसार है । अतः सामान्यतः उभयत्र समानता ही है । दो अर्थों के लिए पाणिनि के दो सूत्र अवश्य गौरवाधायक कहे जा सकते हैं - "लटः शतृशानचावप्रथमासमानाधिकरणे, सम्बोध 'च' (अ०३।२।१२४,१२५)। [विशेष वचन ] १. शन्तृङ् इति ऋकार उच्चारणार्थः, ङकारो "ङे न गुणः" इति विशेषणार्थः (दु० टी० ) | २. आनशः शकारः सार्वधातुकार्थ: ( दु० टी० ) । ३. अनित्यत्वं च लक्षणमनुसरति (वि० टी० ) । ४. अधिक्रियते नियुज्यतेऽस्मिन् शब्द इत्यधिकरणमर्थः (क० च० ) । [रूपसिद्धि] १. पचन्तं छात्रं पश्य । पच् + शन्तृङ् + अम् । 'डु पचष् पाके' (१।६०३) धातु
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy