________________
कातन्त्रव्याकरणम्
। चलन्ती पताका यस्येति चलत्यताकम् ? सत्यम् , एवं मनसि कृत्वाह. । सर्दियस्येति । तच्चानित्यत्वं लक्ष्यानुसारेणेति पचतितराम् इत्यादिषु न .11। यद्यो वं वर्तमाने शन्तृ ङानशा'' इत्यास्ता अभिधानादभिमतप्रयोगसिद्धिर्भविष्यति? सत्यम् , मन्दधियां सुखार्थम्। अव्यापकं चादिह 'प्रत्ययोत्तरपदयोश्च'' इति वक्तव्यं नाश्रीयते इतरेतराश्रयदोषप्रसङ्गादिति। नन कथम्त्पन्नयोः शन्तृङानशो: प्रथमेकाधिकरण्यं स्यात् , उत्पन्नयोश्च नयास्तत्प्रतिबन्धकः इति नाविद्यमानयोर्विशेषणमुपलभ्यते? सत्यम्। कृदन्तसाधनं दध्या विशेषे विशेषणेन युज्यते । यथा "वाऽणपत्ये" (२।६।१) इत्युत्पन्ने च पः पत्यार्थोऽभिधीयते । ‘पचन्तं पचमानं छात्रं पश्य' इति पचिक्रियापेक्षया हात्र: कर्ता दृशिक्रियापेक्षया कर्म सोऽयमपरित्यक्तकर्तृत्व एव क्रियान्तरे कर्मति भवत एव । एतावता प्रथमैकाधिकरणाविति। ननु अपचन्तं पश्येति फलस्यानुवृत्तेर्वर्तमानता गम्यते इति नापि प्रयोगौ भवतः ।।११०२।
[वि० प०]
वर्तमाने ०। प्रथमया एकाधिकरणं प्रथमैकाधिकरणम् , तस्याभावोऽप्रथमैकाधिकरणम्, प्रसज्यार्थो नञित्याह- प्रथमान्तेन चेदिति । यदि पुन: पर्युदास: सदृशग्राही स्यान्न प्रथमाऽप्रथमेति तदा प्रथमाव्यतिरिक्ताभिर्द्वितीयादिभिरेव विभक्तिभिः सामानाधिकरण्ये शन्तृङानशाविति । कुर्वतोऽपत्यं पचतोऽपत्यमिति विग्रहे कौर्वत: पचत इति तद्धितवृत्तिर्न स्यात् , सापेक्षत्वात् । अपेक्षते हि शन्तृङन्तो द्वितीयाद्यन्तं समानाधिकरणम् । यथा कुर्वतोऽपत्यं देवदत्तस्येति, न ह्यन्यथा शन्तृङ् अस्तीति तथा कर्वतो भक्तिः कुर्वद्भक्तिरिति समासोऽपि न स्यात् । कुर्वतश्छात्रस्येत्यपेक्ष्यमाणत्वात् प्रसज्यार्थे तु नैष दोषः । शन्तृङानशोः प्रथमैकाधिकरणाभावनिबन्धनोत्पत्तिकतया द्वितीयाद्यन्तसमानाधिकरणपदापेक्षानुपपत्तेः ।।
ननु प्रसज्यपक्षेऽपि कथमिदं लभ्यते इति भक्तिः । कुर्वन् भक्तिरस्य कुर्वद्भक्तिः। कुर्वाणो भक्तिरस्य कुर्वाणभक्तिरिति? तद्धिताश्च कथं प्रथमासमानाधिकरणवृत्तयः। यथा पकृपः कुर्वन् कुर्वत्तरः, प्रशस्त: कुर्वन् कुर्वद्रूपः, ईषदसमाप्तं कुर्वन् कुर्वत्कल्पः परुष इति? तथोत्तरपदेऽपि। चलन्ती पताका यस्य चलत्पताकं गृहम्? सत्यमेतत्, तथा नत्रा निर्दिष्टस्यानित्यत्वाद् भविष्यति। तथा चेदमेवाग्रतो वक्ष्यतीति। तेन "प्रत्ययोत्तरपदयोश्च" इति न वक्तव्यं भवति। अनित्यत्वं च लक्षणमनसरतीति पचतितरामित्यादौ वर्तमानैव भवति न शन्तृङानशौ नञित्यादि। जुह्वदिति। "जुहोतेः सार्वधातुके" (३।४।६१) इति वत्वम् , "अभ्यस्तादन्तिरनकारः" (२।२।२९) इति नलोप:। सनिति। "अस्तेरादेः" । ३।४।८१) इत्यकारलोपः।।११०२।