________________
३४३
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः ५-८. शिशीर्वान्। शृ + क्वन्सु + सि । दिदीर्वान् । दृ + क्वन्सु + सि । जजागर्वान्। जागृ + क्वन्सु + सि । बभज्वान्। भन्ज् + क्वन्सु + सि । प्रक्रिया पूर्ववत्।
९. व्यतिपेचानः। वि + अति + पच् + कान + सि । 'वि + अति' उपसर्गपूर्वक 'डु पचष् पाके' (१।६०३) धातु से प्रकृत सूत्र द्वारा 'कान' प्रत्यय, द्विर्वचनादि तथा विभक्तिकार्य ।
१०. चक्राणः। कृ + कान + सि । 'डु कृञ् करणे' (७।७) धातु से 'कान' प्रत्यय, द्विर्वचनादि तथा विभक्तिकार्य ।। ११०१। ११०२. वर्तमाने शन्तृङानशावप्रथमैकाधि
करणामन्त्रितयोः [४।४।२] [सूत्रार्थ]
वर्तमान काल में प्रथमैकाधिकरण्य तथा आमन्त्रित अर्थ में वर्तमान धातु से ‘शन्तृङ् - आनश् ' प्रत्यय होते हैं ॥११०२।
[दु० वृ०]
वर्तमानक्रियायां वर्तमानाद् धातोः शन्तृङानशौ भवतः अप्रथमैकाधिकरणे आमन्त्रितविषये च, प्रथमान्तेन चेत् शन्तृङानशोः सामानाधिकरण्यं न भवतीत्यर्थः । पचन्तं पचमानं छात्रं पश्य । पचता पचमानेन छात्रेण कृतमित्यादि । आमन्त्रितविषये च-हे पचन् ! हे पचमान ! अप्रथमैकाधिकरणामन्त्रितयोरिति किम् ? पचति छात्र: । ना निर्दिष्टस्यानित्यत्वात् - जुहोति, जुह्वत् । तथा मायोगे त्वाक्रोशे । मा पचन् , मा पचमानः । आनश्च क्रियापेक्षायाम् पचन्नास्ते, पचमानस्तिष्ठति । संज्ञायां वा - सन् गुणः, अस्ति गुणः, विद्यमानो ब्राह्मणः, विद्यते ब्राह्मणः ॥११०२।
[दु० टी०]
वर्तमाने०। शन्तृङ् इति ऋकार उच्चारणार्थः । ङकारो "डे न गुणः" (४।१।६) इति विशेषणार्थः । आनश: शकारः सार्वधातुकार्थः । एकशब्दः समानार्थः, प्रथमाया एकाधिकरणम् प्रथमैकाधिकरणम् । प्रसज्यनञः प्रतिषेधो यावता वाक्यभेदोऽसमर्थः समासश्चेत्याह - प्रथमान्तेन चेदित्यादि । यदि पुनः पर्युदासः स्यात् । न प्रथमा अप्रथमा, प्रथमा अन्या द्वितीयाद्या विभक्तय उच्यन्ते आभिरेकार्थमात्रप्रथमैकाधिकरणमिति। 'कौर्वत: पचते' इति कुर्वतोऽपत्यं छात्रस्येति सापेक्षत्वात् तद्धितवृत्तिर्न स्यात् । कुर्वद्भक्तिरिति कुर्वतो भक्तिश्छात्रस्येति समासश्च न स्यात् । अनपेक्षायां तु शन्तृङेव स्यात् , प्रसज्यपक्षेऽपि कथं कुर्वत्तर इति प्रकृष्टः कुर्वन्, कुर्वप इति प्रशस्तः कुर्वन्, कुर्वत्कल्प इति ईषदसमाप्त: कुर्वनिति।