________________
३४८
कातन्त्रव्याकरणम्
२. शयाना भुञ्जते यवनाः । शी + आनश् - जस् । 'शीङ् स्वप्ने' (२।७८) धात् से 'आनश् ' प्रत्यय, 'श् ' अनुबन्ध का प्रयोगाभाव, धातुघटित ईकार को गण, अयादश तथा विभक्तिकार्य ।
___३. अर्जयन् वसति । अ' - इन् - शन्तृङ् + सि । 'अर्ज प्रतियत्ने' (९।१४५) धातु से 'इन् ' प्रत्यय, ‘अर्जि' की धातुसंज्ञा, 'शन्तृङ् ' प्रत्यय, इकार को गुण, अयादेश तथा विभक्तिकार्य ।
४. अधीयानो वसति । अधि - इङ् - आनश् - सि। 'अधि उपसर्ग पूर्वक 'इङ् अध्ययने' धातु से प्रकृत सूत्र द्वारा आनश् प्रत्यय, “स्वरादाविवर्णोवर्णान्तस्य धातोरियुवो" (३।४।५५) से 'इ' को ‘इय् ' आदेश, समानलक्षण दीर्घ तथा विभक्तिकार्य ।।११०३।
११०४. वेत्तेः शन्तुर्वन्सुः [४।४।४] [सूत्रार्थ
'विद ज्ञाने' (२।२६) धातु से उत्तरवर्ती ‘शन्तृङ् ' प्रत्यय के स्थान में 'वन्सु' आदेश विकल्प से होता है ।।११०४।
[दु० वृ०]
वेत्तेः परस्य शन्तुर्वन्सुर्भवति वा। विद्वान्, विद्वांसौ, विदन् , विदन्तौ। तिग्निर्देश: सुखार्थः। वेत्तरेवानन्तरः शन्तृङिति।।११०४।
[दु० टी०]
वेत्तेः । सत्तालाभार्थयोर्यन्विकरणाभ्यां व्यवधानाद् विचारार्थश्च रोधादिक आत्मनेपदीति ज्ञानार्थ एवात्र पारिशेष्यादित्याह- तिबित्यादि । ननु वेत्तेः ‘शन्सुङ् ' इत्यास्ताम् , किमादेशेन शकारस्य सार्वधातुकत्वादिड् न भवति उ न गुणः इति च ? सत्यम् , लक्षणहत्वीरित्यत्र प्रथमेकाधिकरणं न वर्तते वचनादिहानुवर्तते तर्हि प्रथमेकाधिकरणे कथं शन्तृङ् अनित्यत्वबलादिति चेद् एवमधिकारोऽपि न वर्तिष्यते इष्टत्वादिति ? सत्यम् , प्रतिपत्तिगौरवं स्यात् ।।११०४।
[वि०प०]
वेत्तेः। पण्डिताभिधायिन एव वन्सुरन्यत्र नाभिधीयते इत्यभिप्रायेणाह - वेत्तेरिति। तदयुक्तम्, अन्यत्रापि दृश्यते वन्सुरादेशो यथा - विद्वान् घटमिति । तथा च प्रयोग:'महिम्नः पारं ते परमविदुषः' (शि० म० स्तो०) इति निष्ठादित्वात् कर्मणि षष्ठी प्रतिषिध्यते । तेन पण्डितपर्यायत्वे सति कर्मविभक्तियुज्यते । तस्मादभिधानादेवात्र विकल्प इति । वेत्तरेवेत्यादि । विदः सत्तार्थस्य विचारार्थस्य चात्मनेपदित्वादेव न शन्तृङ् । परस्मैपदं तु लाभार्थस्योभयपदित्वादस्ति केवलमन्विकरणेन शन्तृङो न व्यवधानम् । विद इति । इह ‘पञ्चम्या निर्दिष्टे परस्य' (का० परि० २२) इत्यनन्तरस्येव पारिशेष्याद् विदिर्ज्ञानार्थ एव लभ्यते इत्यर्थः ।।११०४।