________________
३.४०
कातन्त्रव्याकरणम्
क्वन्सौ परोक्षावद्भूते “चकासकास्०” (३।२।१७) इत्यादिना आम्, "आमः कृञनुप्रयुज्यते" (३।२।२२) इत्यादिना कृञनुप्रयोगः । ओषाम्बभूवानिति । "उषविदजागृभ्यो वा " (३।२।२०) इत्याम् भूधातोश्चानुप्रयोगः । कानुबन्धे यणि यद् दृष्टं कार्यं भवतीत्याहयणीत्यादि ।'ॠदन्तस्येरगुणे" ( ३।५।४२) इतीर् । यथा शीर्यते इति । न तु "ॠदन्तानां च'' (३।६।१६ ) इति गुण:, यथा- विशशरतुरिति । "यणाशिषोर्ये' (३/६/१३) इति गुणः, यथा जागयते इति, न तु परोक्षायामगुणे इत्यनेन यथा जजागरतुरिति। ‘“अनिदनुबन्धानाम्’’ (३।६।१) इत्यादिनाऽनुषङ्गलोप:, यथा- भज्यते, रज्यते इति । न तु " परोक्षायामिन्धि ० (३।६।३) इत्यादिना इन्ध्यादीनामेवेति नियमात् । अनुषङ्गस्थितिः, यथा बभञ्जतुरिति। कानमुदाहरति - 'व्यतिपेचानः, चक्राण:' इति । पचेरनियमे च "अगतिहिंसाशब्दार्थहसः ' इति क्रियाविनिमये रुचादित्वादात्मनेपदम्।
,
""
"
•
་་
यदा तु 'व्यतिपेठान:' इति पुस्तकान्तरे पाठस्तदा अशुद्ध एव । शब्दार्थत्वेन कर्तरि व्यावृत्तिविषयत्वात् । परोक्षावद्भावादतीतः कालो लब्ध एवेत्याह- अतीतेत्यादि । अतीताधिकारः सामान्येन वर्तमानः श्रुप्रभृतिभिरेव धातुभिः संबध्यते नान्यैरित्यर्थः । अन्येषां पुनः परोक्षाकालविषयत्वमेव परोक्षावद्भावाद् वेदितव्यम् । श्रुप्रभृतिभ्यः परोक्षादयो विशेषविहिताः पक्षे विकल्पाद् भवन्ति, न तु क्वन्सुकानाभ्यां बाध्यन्ते, तयोरतीतसामान्यविहितयोरुत्सर्गत्वात् । धातुविशेषाभावेनापवादत्वम् इति चेत् तथाप्यभिधानतः कृतो भवन्तीति, नैतौ बाधकावित्याह-उपशुश्रुवेति । परोक्षाद्यतनीह्यस्तन्यो यथा स्वे काले क्वन्सुश्च सर्वत्रातीतकाल इति 'श्रु श्रवणे' १।२७८), यदा विशरणार्थस्तस्य त्ऌदनुबन्धत्वादद्यतन्यामण् क्वन्सौ द्विर्वचनादिके कृते “अर्तीण्घसैकस्वरातामिड्वन्सौ' (४।६ | ७६) इतीट् । 'वस निवासे' (१।६१४), "परोक्षायामभ्यासस्योभयेषाम् ' ( ३।४।४) इति सम्प्रसारणम्, अद्यतन्यां सिचि "सस्य सेऽसार्वधातुके तः " (३।६।९३), क्वन्सौ यजादित्वात् कृतसम्प्रसारणस्य द्विर्वचने समानदीर्घत्वे "शासिवसिघसीनां च " ( ३।८।२७) इति षत्वम् । तथेति । क्वन्सौ द्विर्वचनम्, " दीर्घ इणः परोक्षायामगुणे" ( ३।३।१७) इत्यभ्यासे दीर्घत्वम् । पूर्ववदिटि कृते " इणश्च' (३|४|५९) इति यत्वम् । इण्मात्रस्य प्रमाणत्वाद् उपसर्गैरपि न विरुध्यते- 'समीयिवान्, उपेयिवान्' इति। नञ्पूर्वाच्चाश्नातेरिति, अस्योदाहरणमाह-अनाश्वानिति । 'अश् भोजने' (८।४।३), क्वन्सुः, द्विर्वचनम्, “अस्यादेः सर्वत्र” (३।३।१८ ) इति दीर्घत्वे परलोपे चैकस्वरत्वात् पूर्ववद् इट् प्राप्तोऽभिधानान्न भवति । न आश्वान् अनाश्वानिति नञ्समासः । तथेत्यादि 'वच भाषणे' (२।३०) परस्मैपदिनोऽप्यत एव वचनात् कान आत्मनेपदम् । इह ब्रूञो वा कृतवच्यादेशस्य ग्रहणं ‘स्वपिवचि०" (३।४।३) इत्यादिना कृतसम्प्रसारणस्य द्विर्वचनम्। अतीताभिधायिनोऽपीति। इण्प्रभृतेरिति शेषः । यथा इयाय, अगात् ईत् ।