________________
३३९
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः विशशरतुरिति कानुबन्धसामर्थ्यात्, तर्हि जजागर्वानिति गुणोऽपि स्यात् जजागरतुरिति, यथा 'बभज्वान्, ररज्वान्' इति । 'भन्ज आमर्दने; रन्ज रागे' (६।१३;३।१२१)। परोक्षायामिन्द्धीत्यादिनियमादनुषङ्गस्थितिर्नास्तीति कानुबन्धबलादेव जागर्तेरपि गुणो न भवति, यणि दृष्टं कार्य तत् कानुबन्धेऽपि यथा जागर्यते इत्याह-यणि दृष्टत्वादेवेरित्यादि। अतीताधिकार: किमिति परोक्षावद्भावाद् इहातीतत्वं लब्धमिति भावः। तेन यथाविषयमतीतप्रयोगानुदाहरति- उपाश्रौषीदित्यादि । तथेति इण्मात्रमिह प्रमाणमुपसर्गरपि न विहन्यते इत्याह- समीयिवान्, उपेयिवानिति । इयाय, अगात्, ऐत्, इतवान् । नाश, नाशीत्, नाश्नात् , अनशितवान्। ब्रुवो वचिः - अनूवाच, अन्ववोचत् , अन्ववक्, अन्वब्रवीत् , अनूक्तवान्। वाऽभिधानव्यवस्थेयमविशेषनिर्देशात् । शृणोत्यादिभ्यः क्वन्सुकानावतीताभिधायिनां न बाधकाविति ।
अन्यस्त्वाह- वाऽसरूपविधानादद्यतन्यादयोऽपि भवन्ति । न च कृत्स्वेवायं नियमो यथा शक्येत, शक्यम्- सह्येत, सह्यमिति। शृणोत्यादय एवेति। अन्ये धातवः क्वन्सुकानान्ताश्छन्दस्येवेत्यादि। ते च परोक्षकालविषया एव। शास्त्रकारणमतं तु लक्ष्यते-अन्येऽपि धातवः क्वन्सुकानान्ता भाषायाम्, यदयम् “अर्तीण्घसैकस्वरातमिड्वन्सौ'' (४।६।७६) इत्याह - "गमहनविदविशदृशां वा' (४।६।७७) इति । अन्य आह - अनूचानादन्यत्र कानश्छन्दसीति । तथा शृणोत्यादीन् प्रत्यतीताधिकार इत्यभिधानात् । अतीतानुवर्तनोपायश्चकारग्रहणम् ।।११०१ ।
[वि० प०]
क्वन्स० । व्यपदिश्यते इत्यनेन व्यपदेशातिदेशोऽयं नान्य इति दर्शितम् । तथाहि न तावन्निमित्तातिदेशः। परोक्षाविभक्तेरतीतपरोक्षकालो निमित्तम् , तच्चेदतिदिश्यते न धातोर्विचनादिकं स्यात् तन्निबन्धनस्य परोक्षाव्यपदेशस्यैवाभावात् । अथ रूपातिदेशोऽस्तु ? क्वन्सकानौ परोक्षारूपिणाविति चेत् किमत: सिद्ध परोक्षरूपमिति चेत् किं तदिति न विद्मः। अडादिकमिति चेत् किं क्वन्सुकानाभ्यां तदेव कुर्यात् स्थानिवद्भावेन यणवत् कार्यमिति चेत् तदयुक्तम् , एवं सति अडादिर्यण्वद् इति ब्रूयात् । अस्तु तर्हि कार्यातिदेश:? क्वन्सुकानौ परक्षाकार्यिणाविति तदयुक्तम् , परोक्षाया: कार्याभावात्। द्विवचनादिकं हि धातो: कार्यं न परोक्षाया इति । अथ परोक्षायां यद् दृष्टं कार्यं तत् परोक्षाया इति भाव्यते । तथापि प्रतिपत्तिगौरवं स्यात् । तथा "चण्परोक्षा०" (३।३।७) इत्यादिशास्त्रातिदेशो गरीयानिति। ननु व्यपदेशातिदेशोऽपि संज्ञातो न भिद्यते संज्ञेवास्तां किं वद्ग्रहणेन? सत्यम्, वद्ग्रहणं स्वाश्रयार्थम्। अन्यथा क्वन्सुकानौ परोक्षा चेत्युक्ते परोक्षाविभक्ती भवत इति विभक्तित्वाल्लिङ्गसंज्ञा तदन्तस्य न स्यात् । वद्ग्रहणे तु क्वन्सुकानयो: स्वाश्रयं कृत्त्वमस्तीति लिङ्गसंज्ञा न विरुध्यते । पेचिवानिति। पचे: क्वन्सुः। परोक्षावद्भावाद् द्विवचनम् । "अस्यैकव्यञ्जनमध्ये' (३।४।५१) इत्यादिना अकारस्यैत्त्वम् अभ्यासलोपश्च भवति इति। तथा पाचयाञ्चकृवानिति। पचेरिनन्तात्