________________
अथ चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
११०१. क्वन्सुकानौ परोक्षावच्च [४।४।१] [सूत्रार्थ]
भूतकाल अर्थ में धातु से 'क्वन्सु-कान' प्रत्यय होते हैं तथा उनका परोक्षावद्भाव भी होता है || ११०१ ।।
[दु० वृ०]
अतीते वर्तमानाद् धातोः क्वन्सुकानौ भवतः, तौ च परोक्षे इव व्यपदिश्यते । पेचिवान् , पाचयाञ्चकृवान् । ररज्वान् , ओषाम्बभूवान् , शिशीर्वान्, दिदीर्वान्, जजागर्वान्, बभज्वान् । यणि दृष्टत्वादेवेर् जागर्तेर्गुणोऽनुषङ्गलोपश्च । व्यतिपेचानः, चक्राणः । अतीताधिकारः किम् ? श्रुसदवसामतीतमात्रे क्वन्सुरभिधातव्यः । उपशुश्राव, उपाश्रौषीत्, उपाशृणोत्, उपशुश्रुवान्, उपससाद, उपासदत् , उपासीदत्, उपसेदिवान्। अनूवास, अन्ववात्सीत् , अन्ववसत् - अनूषिवान् । तथा इणो नपूर्वाच्चाश्नातेः। ईयिवान्, समीयिवान् , उपेयिवान्, अनाश्वान्। तथा अनुपूर्वाद् वचे: कानः कर्तर्येवअनूचानः । अतीताभिधायिनोऽपि पूर्ववत् प्रयोक्तव्याः । शृणोत्यादय एवामी भाषायां रूढाः।। ११०१ ।
[दु० टी०]
क्वन्सु०। निमित्तादयोऽतिदेशा न युज्यन्त इत्याह-व्यपदिश्यते इति। परोक्षाविभक्तेरतीत: परोक्षः कालो निमित्तं तदतिदिश्यमानं द्विर्वचनादिकं न साधयति । विशेषाभावादस्त्वेवमिति चेत् , न । "अर्तीण्यसैकस्वरातामिड्वन्सौ" (४।६।७६) इत्यात्राादेरुपादानात्। अन्यथा एकस्वरद्वारेणैव सिध्यतीत्यर्थः । क्वन्सकानो परोक्षारूपिणी चेत् ततः किं क्वन्सुकानौ परोक्षाकार्यिणाविति द्विर्वचनादिकं धातोः कर्म न पुनः परोक्षायाः। अथ परोक्षायां दृष्टं यत् कार्यं तत् परोक्षाया इत्यध्यारोप्यते इति प्रतिपत्तिगौरवं स्यात् । शास्त्रातिदेशोऽपि न घटते । व्यपदेशातिदेशोऽपि संज्ञातो न भिद्यते, वरं सज्ञेवास्ताम्, किं वद्ग्रहणेन ? सत्यम् , स्वाश्रयार्थम् । अन्यथा क्वन्सुकानो परोक्षाविभक्ती भवत: इति विभक्तिवर्ज लिङ्गमिति लिङ्गसञ्ज्ञा न स्यात्। वद्ग्रहणे तु कृत्वाल्लिङ्गसज्ञा न विहन्यते ।।
ननु लोकोपचारादेव विभक्तित्वं स्याद् अस्त्यादेश्चणः परोक्षेत्यनेन भवत: किं वत्करणेन? सत्यम्, प्रतिपत्तिसुखार्थमेवेत्यर्थः। न च वक्तव्यम् एवं वहे-महे, तदनन्तरं क्वन्सुकानौ विदध्याद् भिन्नकर्तकत्वात् । पेचिवानिति परोक्षायामभ्यासस्यैत्वमभ्यासलोपश्च। पाचयाञ्चकृवानिति, प्रत्ययान्तत्वाद् आमः कृअनुप्रयोगः परोक्षायाम्। शिशीर्वानिति। 'शृ हिंसायाम्' (८।१५), "ऋदन्तानां च'' (३।६।१६) इति गुणो न भवति, यथा