________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
३४१ नपूर्वोऽश्नातिः। यथा नाश, नाशीत् , नाश्नात्। अनुपूर्वो वचिर्यथा। अनूवाच, अन्वोचत्, अन्ववक्। ब्रूनो वा अन्वब्रवीदिति सार्वधातुके वच्यादेशस्याभावात्। एवं निष्ठाप्रत्ययोऽतीताभिधायी श्रुप्रभृतिभ्यो यथायोगमुदाहर्तव्यः। शृणोत्यादय एवेति। अन्ये तु परोक्षकालविषयाः क्वन्सुकानान्ताश्छन्दस्येवेत्यर्थः। तत्तु मतान्तरम्। सूत्रकारस्य मतं लक्ष्यते क्वन्सुकानान्ता: परोक्षकालविषया अमी भाषायामपि यस्माद् "अर्तीण्यसैकस्वराताम् इड्वन्सौ" (४।६।७६) इति। "गमहनविदविशदृशां वा" (४।६।७७) इत्याह। न चैतच्छन्दोविषयतया चरितार्थमिति शक्यते वक्तुम्, छान्दसानां शब्दानामिहानादरादिति।।११०१।
[क० च०]
क्वन्सु० । अनयोः ककारो यण्वद्भावार्थः। क्वन्सोरुकार उदनुबन्धशन्तृपुंसामेवेति नियमाओं नलोपश्चेत्यत्रोक्तम् । तथाहि गोमत्यतीति क्विपि यलोपे निमित्ताभावात् पुनर्नकारस्थितौ 'प्रत्ययलोपे प्रत्ययलक्षणम्' (का० परि० ५२) इति पुनर्लोप: कथन्न स्यात्, यथा गोमानित्यादि? अत्र सिद्धान्तः- यिन्नाय्योटि प्रत्ययलोपलक्षणं नास्तीति। तर्हि ‘पथ्यौ, मथ्यौ' इत्यत्र कथं नलोपः, तदायं नियम उच्यते- उदनुबन्धशन्तृपुंसामेवेति, यथा पेचवानं इत्यादि । पञ्चिकायां तनिबन्धनस्येति । नन्वतेन किं नहि दूषणमेव सिद्धान्तः? सत्यम् ,. "अर्तीण्घसैकस्वराताम् इड्वन्सौ" (४।६।७६) इति सूत्रे अादिग्रहणान्नायमतिदेशः, तत्र हि द्विर्वचने एकस्वरत्वं गृह्यते । इदानीं यदि क्वन्सोर्विचनं नास्ति, तदा एकस्वरद्वारेणैवा.देरपि ग्रहणं भविष्यति किमादिग्रहणेन। यद् वा वद्ग्रहणमनर्थकम् , क्वन्सुकानौ परोक्ष इति कुर्यात् । अतीते परोक्षे क्वन्सुकानौ भवत इत्यर्थः । यण्वदिति । अयोक्तम् इत्यध्याहार्यम्। अडादिर्यण्वदयोक्तमिति कुर्यादित्यर्थः। अन्यथा इकारागमदीर्घगुणा न स्युरिति । अस्मिन् पक्षेऽडादेर्विभक्तित्वात् कथं तदन्तात् स्यादीनामुत्पत्ति:. ? सत्यम् , कृदधिकारे विधानादस्य कृत्त्वात् प्रत्ययत्वमेव, न तु विभक्तित्वम् । तथा “चण्परोक्षा' (३।३।७) इति तथा पूर्वोक्तोपचारेणेत्यर्थः। नहि परोक्षाशास्त्रमस्ति, किन्तर्हि तस्यां धातोरेव स्वाश्रयमिति कृत्वार्थमित्यर्थः।
कानुबन्ध इति। परोक्षावद्भावाद् ऋदन्तानां चेति गुणो न स्यात् । यण्वद्भावादेव न स्यादिति कथं नियमः, न च वक्तव्यम् , कानुबन्धबलादेव भवतीति । पेचिवानित्यादावगुणेऽस्यैकव्यञ्जनमध्ये इत्यादिना एत्वाभ्यासलोपे चरितार्थत्वात्? सत्यम्, एवं च सति वन्सुकानाविति कुर्यात् । "ॐ न गुणः" (४।१।६) इत्यनेनैवागुणत्वं भविष्यति, तस्मात् ककारसामर्थ्याद् यणि यद् दृष्टं तदेव भविष्यतीत्यदोषः । यद् वा आनस्यात्मनेपदित्वात् "सर्वत्रात्मने'' (३।५।२१) इत्यनेनैवागुणत्वं सिद्धं किं कानस्य कानुबन्धकरणेन तस्माद् यण्वत् कार्यमेव । "यणाशिषोर्ये' (३।६।१३) इति । ननु कथं "के यण्वच्च योक्तवर्जम्" (४।१।७) इत्यनेन ये उक्तं वर्जयित्वैव यण्वद्भावः। "यणाशिषोर्ये' ((३।६।१३) इति तूक्तमिति नेदं प्रति यण्वद्भावः, सत्यम्, "जागुः