________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
३३१ [दु० वृ०]
कर्मण्युपपदेऽतीते वर्तमानाद् दृशेः क्वनिब् भवति । मेरुं दृष्टवान् मेरुदृश्वा। अतीते क्विबादीनां बाधनार्थमिदम् ।।१०९३।
[दु० टी०]
दृशेः। क्विबादीनामित्यादि । अन्यथा “अन्येभ्योऽपि दृश्यन्ते" (४।३।६७) इति क्वनिप् सिद्ध एव, दृशिग्रहणं तत्र प्रयोगानुसारार्थं चेद् बालसम्मोहः स्यात् ।।१०९३।
[वि० प०]
दृशेः। “अन्येभ्योऽपि दृश्यन्ते'' (४।३।६७) इति क्वनिप् सिद्ध एवेत्याह - अतीत इत्यादि । यदि पुनस्तत्र दृशिग्रहणस्य प्रयोगानुसारार्थत्वादतीते क्वनिबेव दृश्यते इत्युच्यते तदा सुखार्थमेव भवति ।।१०९३।
[समीक्षा]
'मेरुदृश्वा, परलोकदृश्वा' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्वनिप्' प्रत्यय का विधान किया है । पाणिनि का सूत्र है- “दृशे: क्वनिप्" (अ० ३।२।९४)। अत: उभयत्र समानता ही है ।
[विशेष वचन १. अतीते क्विबादीनां बाधनार्थमिदम् (दु० वृ०)। २. दृशिग्रहणं तत्र प्रयोगानुसारार्थम् (दु० टी०)। ३. तदा सुखार्थमेव भवति (वि० प०)। [रूपसिद्धि]
१. मेरुदृश्वा। मेरु-दृश् + क्वनिप् + सि । मेरुं दृष्टवान् । 'मेरु' शब्द के उपपद में रहने पर 'दृशिर् प्रेक्षणे' (१।२८९) धातु से प्रकृत सूत्र द्वारा 'क्वनिप् ' प्रत्यय, 'क् - इ - प् ' अनुबन्धों का प्रयोगाभाव, 'मेरुदृश्वन् '. शब्द की लिङ्गसंज्ञा तथा विभक्तिकार्य ।।१०९३।
१०९४. सहराज्ञोर्युधः [४।३।८९] [सूत्रार्थ]
कर्म कारक में 'सह-राजन् ' शब्दों के उपपद में रहने पर अतीतार्थक 'यध सम्प्रहारे' (३।११०) धातु से 'क्वनिप् ' प्रत्यय होता है ।।१०९४।
[दु० वृ०]
सहराज्ञोः कर्मणोरुपपदयोरतीते वर्तमानाद् युध्यते: क्वनिब् भवति । सह युध्यते स्म सहयुध्वा। राजानं युध्यते स्म राजयुध्वा। अन्तर्भूतेनर्थः सकर्मकः । राजानं योधितवानित्यर्थः ।।१०९४|
[क० च०]
सह०। सहशब्दस्य कर्मत्वाभावेऽपि कर्मणोरिति विशेषणम् एकदेशे चरितार्थम् ॥१०९४।