________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
३२९ [वि० प०]
चेः। अग्न्यर्थ इत्यादि। “क्विप्च' (४।३।६८) इत्यत्र "अन्येभ्योऽपि दृश्यन्ते'' (४।३।६८) इत्यतो दृशिग्रहणानुवृत्तेः कर्मण्यनिर्दिष्टकालत्वाच्चातीतेऽपि स्यादित्यर्थः। पाकार्थमिष्टकानां रचनाविशेषः श्येन इवेत्यादिना कथ्यते । इयमपीति । न केवलं वहे: पञ्चम्यां भ्रंशेरित्यादि, चतु:सूत्रीत्यपिशब्दार्थः ।।१०९१ ।
[क० च०]
चेः । अग्न्यर्थ इति । अग्निप्रयोजनरूपत्वात् पाक एवाग्निरुच्यते, अग्न्यर्थे पाकार्थे इत्यर्थः। अत आह- पाकार्थ इति पञ्जी। तत्रानिर्दिष्टकालत्वेऽपि दृशिग्रहणस्य प्रयोगानुसारित्वात् तत्रातीते एव स्यात् । अत एव वाक्ये स्मशब्दो दर्शितः।।१०९१।
[समीक्षा]
'अग्निचित्' शब्दरूप के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्विप् ' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "अग्नौ चे:” (अ० ३।२।९१)। अत: उभयत्र समानता ही कही जाएगी ।
[विशेष वचन] १. इयमपि चतुःसूत्री प्रपञ्चार्था (दु० वृ०)। २. पूर्वाणि चतु:सूत्राणि क्विबानि प्रपञ्चार्थानि (दु०टी०)। ३. दृशिग्रहणं प्रयोगानुसारार्थम् (दु० टी०)। ४. पाकार्थमिष्टकानां रचनाविशेष: श्येन इवेत्यादिना कथ्यते (वि० प०)। [रूपसिद्धि]
१. अग्निचित्। अग्नि + चि + क्विप् + सि । अग्निं चितवान् । 'अग्नि' शब्द के उपपद में रहने पर 'चिञ् चयने' (४।५) धातु से प्रकृत सूत्र द्वारा 'क्विप् ' प्रत्यय, सर्वापहारी लोप, तकारागम तथा विभक्तिकार्य ।। १०९१।
१०९२. विक्रिय इन् कुत्सायाम् [४।३।८७] [सूत्रार्थ
कर्म कारक के उपपद में रहने पर तथा कुत्सा अर्थ के गम्यमान होने पर अतीतार्थक 'वि' पूर्वक 'डु क्रीञ् द्रव्यविनिमये' (८।१) धातु से 'इन् ' प्रत्यय होता है ।।१०९२।
[दु० वृ०]
कर्मण्युपपदे विपूर्वादतीते क्रीणातेः कुत्सायां गम्यमानायामिन् भवति। सोमं विक्रीतवान् सोमविक्रयी। तैलं विक्रीतवान् तैलविक्रयी। एवं मांसविक्रयी। अलन्तादस्त्यर्थे इना सिद्धे कुत्सायामण्बाधनार्थं वचनमिदम् ।।१०९२।
[दु० टी०] विक्रिय०। कुत्सायामिति । मांसविक्रायो व्याधः । कर्मण्यण् भवति । अलन्तादिति।