________________
३२८
कातन्त्रव्याकरणम्
१०९०. सोमे सुञः [४।३।८५] [सूत्रार्थ
कर्म कारक में ‘सोम' 'शब्द के उपपद में रहने पर भूतकालार्थक ‘षुञ् अभिषवे' (४।?) धातु से 'क्विप् ' प्रत्यय होता है ।। १०९० ।।
[दु० वृ०]
सोमे कर्मण्युपपदेऽतीते वर्तमानात् सुञः क्विब् भवति । सोमं सुतवान् सोमसुत्। चतुर्विधोऽत्र नियमः । तेन 'सुरां सुतवान् , सोमं विक्रीतवान् , सोमं सुनोति, सोमं सुतवान्'। अतो नाऽण् । अन्यभ्य: क्विबभावेऽण् स्यादेव ।।१०९०।
[समीक्षा
'सोमसुत्' शब्दरूप के सिद्ध्यर्थ दोनों ही आचार्यों ने 'क्विप्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है। “सोमे सुञः'' (अ०३।२।९०)। अत: उभयत्र समानता ही है।
[रूपसिद्धि]
१. सोमसुत्। सोम + सु + क्विप् + सि। सोमं सतवान्। 'सोम' शब्द के उपपद में रहने पर 'षुञ् अभिषवे' (४।१) धातु से प्रकृत सूत्र द्वारा 'क्विप् ' प्रत्यय, सर्वापहारी लोप, तकारागम तथा विभक्तिकर्य ।।१०९० ।
१०९१ . चेरग्नौ [४।३।८६] [सूत्रार्थ
‘अग्नि' शब्द के उपपद में रहने पर अतीतकालार्थक 'चिञ् चयने' (४५) धातु से 'क्विप् ' प्रत्यय होता है ।।१०९१ ।
[दु० वृ०]
अग्नावुपपदेऽतीते वर्तमानाच्चिनोते: क्विब् भवति । अग्निं चितवान् अग्निचित्। चतुर्विधोऽत्रापि नियम:- तेन पुष्यं चितवान्, अग्निं हतवान्, अग्निं चिनोति, अग्नि चितवान्। अतो नाऽण। अग्न्यर्थे त्विष्टकानां रचनाविशेषे गम्यमाने कर्मण्यपि दृश्यते। श्येन इव चीयते स्म श्येनचित्। रथचक्रमिव चीयतेस्म रथचक्रचित्। इयमपि चतु:सूत्री प्रपञ्चाङ्केति।।१०९१।
[दु० टी०]
चे:। अग्न्यर्थ इति कालत्रयेऽप्यन्येभ्योऽपि दृश्यते इत्यपिग्रहणस्य बहुलार्थत्वात् कर्मणि सिद्ध एवेति भाव:। इयमपीत्यादि। चतुर्णां सूत्राणां समाहारश्चतुःसूत्री। पूर्वाणि चतु:सूत्राणि क्विबर्थानि प्रपञ्चानीति । अन्यथा "अन्येभ्योऽपि दृश्यन्ते' (४।३।६७ ) इति दृशिग्रहणं प्रयोगानुसारार्थं यतो मातृहा, पितृहा, सर्वरोगहा, कफपित्तहा इत्येवमादय: सिद्धाः। ब्रह्मादिषु च हन्तेर्णिनिर्भवत्येवेति भावः।।१०९१।