________________
३२७
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः १०८९. कृञः सुपुण्यपापकर्ममन्त्रपदेषु [४।३।८४] [सूत्रार्थ]
कर्म कारक में 'सु- पुण्य-पाप-कर्म-मन्त्र-पद' के उपपद में रहने पर 'डु कृञ् करणे' (७/७ ) धातु से 'क्विप्' प्रत्यय होता है ।। १०८९ ।
[दु० वृ०]
एवु कर्मसूपपदेषु अतीते वर्तमानात् कृञः क्विब् भवति । सुष्ठु कृतवान् सुकृत्। एवं पुण्यकृत्, पापकृत् ,कर्मकृत्, मन्त्रकृत्, पदकृत् । स्वादिषु कृञ एव, अतीत एव, क्विबेवेति त्रिविध एवात्र नियमः। तेन मन्त्रानधीतवान् , कर्म करोति, कर्म कृतवान् । अतो नाण् । शास्त्रकृत्, सूत्रकृदिति भवितव्यमेव ।। १०८९ ।।
[दु० टी०]
कुत्रः । त्रिविध एवेति । उपपदनियमः, प्रत्ययनियमो धातुनियमश्च भवति । स्वादिष्वेव, कृञ एव, अतीत एव क्विबिति करोते: क्विप् । अतो नाणिति । कर्मण्यण न भवतीत्यर्थः । व्यभिचारोऽपि दृश्यते - पदकार इति । केचित् पदग्रहणं न पठन्त्येव। पदं करोतीति पदकृत् इत्यपि मन्यन्ते वर्तमानेऽपि ।।१०८९।
[वि० प०]
कृञः। इदमपि पूर्ववनियमार्थमित्यत आह-स्वादिष्वित्यादि । अतो नाऽण् इति । अत्रापि कर्मण्यण् न भवतीत्यर्थ: । स्वादिष्वेव कृत्र इति उपपदनियमाभावादुपपदान्तरेऽपि स्यादित्याहशास्त्रकृदित्यादि । व्यभिचारोऽपि दृश्यते - पदं कृतवान् पदकार इति ।।१०८९।।
[समीक्षा
'सुकृत् , पुण्यकृत्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'क्विप्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है "सुकर्मपापमन्त्रपुण्येषु कृञः" (अ० ३।२।८९)। अत: उभयत्र प्राय: समानता ही है।
[रूपसिद्धि]
१.सुकृत्। सु + कृ + क्विप् + सि। सु = शोभनं सुष्ठ वा कृतवान्। 'सु' उपसर्गपूर्वक 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा 'क्विप् ' प्रत्यय, सर्वापहारी लोप, तकारागम तथा विभक्तिकार्य।
२. पुण्यकृत् । पुण्य + कृ + क्विप् + सि । पुण्यं कृतवान् । ३. पापकृत् । पाप + कृ + क्विप् + सि । पापानि कृतवान् । ४. कर्मकृत् । कर्मन् + कृ + क्विप् + सि । कर्माणि कृतवान् । ५. मन्त्रकृत् । मन्त्र + कृ + क्विप् + सि । मन्त्रं कृतवान् ।
६. पदकृत् । पद + कृ +क्विप् + सि । पदं कृतवान् । संख्या २ से ५ तक के शब्दों की साधनप्रक्रिया पूर्ववत् ।। १०८९ ।