________________
३२६
कातन्त्रव्याकरणम्
[वि० प०]
क्विप्० । “क्विप् च' (४।३।६८) इत्यनेन सामान्येन सिद्ध नियमार्थमिदम्। नियमश्च धातूपपदकालप्रत्ययानां चतुर्णामेव विशेषाभावादित्याह - ब्रह्मादिष्वेवेति। तेनोपपदधातुकालान्यत्वे सति क्रमेण त्रीणि प्रत्युदाहरणानि। चतुर्थनियममाह-ब्रह्म हतवानिति। ब्रह्मादिषूपपदेषु हन्तेरतीते काले क्विबेव प्रत्यय इत्यर्थः। तेन कर्मण्यण न भवति। एतदेवाह- अतो नाण् इति। यद्येवं निष्ठापि न प्राप्नोतीति चेत्, तदयुक्तम्। 'मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते न परान्' (व्या० परि० पा० १०) इति न दोषः। विनियम इत्यादि। उपपदान्यत्वे त्रीणि उदाहरणानि 'वत्रघ्नः' इत्यन्योऽपि प्रत्ययोऽमनुष्यकर्तृकेऽपि चेति टक्। तथा वृत्रस्य हन्तुरिति तृच्। ब्रह्मविदिति, अन्यतोऽपि धातो: क्विप्। एतेनाभिधानमेवाश्रय इति स्थितम्। तथा च वक्ष्यति। इयमपि चतुःसूत्री प्रपञ्चार्थेति।।१०८८।
[क० च०]
क्विप्। मधुहेति । "इनहन्' (२।२।२१) इत्यादिना दीर्घः । ननु "पञ्चमोपधायाः" (४।१।५५ ) इत्यनेन कथन दीर्घ:? सत्यम् । "इन्हन्" (२।२।२१) इत्यत्र इन: पाठात् । अत एव तत्रोक्तम् । अस्मादेव हन उपधया दीर्घात् क्विपि न दीर्घः , तेन मधुहनि, मधुघ्नीति सिद्धम् । 'मध्येऽपवादा०' (व्या० परि० पा०१०) इत्यादि 'पूर्वान् उत्सर्गान् विधीन् बाधन्ते न तु पराननुत्सर्गान्' इति । ननु निष्ठा कथमुत्सर्ग: अयं वा कथमपवादः, येनेदमुच्यते इत्याह-निरुपपद इति हेमः।। १०८८ ।
[समीक्षा]
'ब्रह्महा, भ्रूणहा, वृत्रहा', शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने क्विप प्रत्यय का विधान किया है । पाणिनि का सूत्र है- "ब्रह्मभ्रूणवृत्रेषु' (अ०३।२।८७)। अत: उभयत्र समानता ही है ।
[विशेष वचन] १. भाष्यकारस्तु नियमद्वयमाह (दु० टी०) । २. इयमपि चतु:सूत्री प्रपञ्चार्था (वि० प०) । [रूपसिद्धि]
१. ब्रह्महा। ब्रह्मन् + क्विप् + सि । ब्रह्म हतवान् । 'ब्रह्मन् ' शब्द के उपपद में रहने पर 'हन् हिंसागत्योः ' (२।४) धातु से प्रकृत सूत्र द्वारा 'क्विप् ' प्रत्यय, सर्वापहारी लोप, लिङ्गसंज्ञा, सि-प्रत्यय, नकार की उपधा को दीर्घ तथा 'सि-न् ' का
लोप ।
२. भ्रूणहा । भ्रूण + हन् + क्विप्। भ्रूणं हतवान् । 'भ्रूण' शब्द के उपपद में रहने पर 'हन् ' धातु से 'क्विप् ' प्रत्यय आदि कार्य पूर्ववत् ।
३. वृत्रहा । वृत्र + हन् + क्विप् + सि । वृत्रं हतवान् । 'वृत्र' शब्द के उपपद में रहने पर 'हन्' धातु से प्रकृत सूत्र द्वारा 'क्विप्' प्रत्यय आदि कार्य पूर्ववत्।।१०८८।