________________
३२४
कातन्त्रव्याकरणम्
अधिकार के लिए स्वतन्त्र सूत्र बनाया है, जबकि कातन्त्रकार ने णिनिप्रत्ययविधायक सूत्र में ही उसका उल्लेख कर लाघव का आश्रय लिया है ।
[रूपसिद्धि]
१. अग्निष्टोमयाजी। अग्निष्टोम - यज् - णिनि - सि । अग्निष्टोमेनेष्टवान। 'अग्निष्टोम' शब्द के उपपद में रहने पर ‘यज देवपूजासङ्गतिकरणदानेषु' (१।६०८) धातु से प्रकृत सूत्र द्वारा 'णिनि' प्रत्यय, ‘ण - इ' अनुबन्धों का प्रयोगाभाव, उपधादीर्घ, ‘अग्निष्टोमयाजिन् ' शब्द की लिङ्गसंज्ञा, सि - प्रत्यय, नकार की उपधा को दीर्घ तथा 'सि-न् ' का लोप।
२. वाजपेययाजी। वाजपेय + यज् + णिनि + सि । वाजपेयेनेष्टवान् । 'वाजपेय' शब्द के उपपद में रहने पर 'यज् ' धातु से ‘णिनि' प्रत्यय आदि कार्य पूर्ववत् ।। १०८६।
१०८७. कर्मणि हनः कुत्सायाम् [४।३।८२] [सूत्रार्थ
कर्मकारक के उपपद में रहने पर अतीत अर्थ में वर्तमान ‘हन हिंसागत्यो:' (२।४) धातु से कुत्सा अर्थ यदि गम्यमान हो तो ‘णिनि' प्रत्यय होता है ।।१०८७।
[दु० वृ०]
कर्मण्युपपदेऽतीते वर्तमानाद् हन्ते: कुत्सायां गम्यमानायां णिनिर्भवति । पितृघाती, मातृघाती। कुत्सायामिति किम्? चौरं हतवान्। दण्डेन हतवान् पितृव्यमिति सापेक्षत्वात्। कर्मग्रहणं सुखार्थम् ।।१०८७।
[दु० टी०]
कर्म०। कर्मग्रहणं किमर्थम् अर्थात् कर्मणि भविष्यतीत्याह-दण्डेनेत्यादि । सापेक्षत्वं चासमर्थं भवतीति भावः । “कुमारशीर्षयोर्णिनिः' (४।३।५२) इति वचनं वर्तमानभविष्यतोरपि प्रापणार्थम् ।। १०८७।
[वि० प०]
कर्मणि०। अथ कर्मणीति किमर्थम्? पूर्वसूत्रादनुवर्तमानकरणनिवृत्त्यर्थम् । यथा दण्डेन हतवानिति चेत्, न, कुत्सनस्याभावात् । अथ 'दण्डेन हतवान् पितृव्यम्' इत्यत्रापि स्यादित्याह - दण्डेनेत्यादि ।।१०८७।।
[क० च०] ___ कर्म०। कर्मग्रहणं किमर्थम् , प्रकृतत्वान्नाम्नीत्यनुवृत्तिः स्यात् तर्हि सामान्यत्वात् करणाद्युपपदे स्यादित्याह-दण्डेनेति । एतेन नामाधिकारेऽपि कर्मोपपदे स्यादिति भावः। अथ कर्मग्रहणं सुखार्थमिति कथमुच्यते प्रत्ययार्थं स्यात्। नैवम् , तदा हन: कर्मणीति कुर्यात्। घअन्तादिना सिद्धे कर्मोपपदे कुत्सायामण्बाधनार्थं वचनम्।। १०८७।