________________
३२३
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः पक्षः स्वर्गस्य किञ्चित् कृत्वा विनश्यतीति साध्यम्, तत्कामिभिरनुष्ठीयमानत्वादिति हेतुः। तत्कामिभिः स्वर्गकामिभिरित्यर्थः। वृक्षमूलेत्यादि दृष्टान्तम्, तेनानुमानसिद्धि:, तच्चेति। तदपूर्व यागादेः शक्तिरवान्तरव्यापारतया तद्द्वारेणेति अपूर्वशक्तिरेव द्वारम्, तेनेत्यर्थः। तथा च द्वारलक्षणम् - तज्जन्यत्वे सति तज्जन्यजनको द्वारमिति। व्यापारश्च स एव तेन यागेन जन्य: सन् यागेन जन्यं स्वर्ग जनयति, तद्द्वारकमित्यर्थः। अपूर्वं च स्वर्गफलभावनायां करणमित्यर्थः। स्वर्गव्यापारोऽपूर्वं व्यवायो व्यवधानता तथाभावप्रसङ्गात् करणत्वाभावप्रसङ्गादित्यर्थः। अथैव विना कारणत्वं कुत्रापि नास्तीति सर्वत्र तथात्वं प्रतिपादयन्नाह-नहीति। तत्समनन्तरं तस्य ज्वलनस्य समनन्तरं सम्यगव्यवहितं यथा स्यात् तथा जायमाने क्रियमाणे इति क्रियाविशेषणं प्रागुक्तम्, नहि स्वव्यापारव्यवाय इत्यादिना प्राक साधकतमं करणमिति यदक्तं तन्न हीयते त्याज्यं न भवतीत्यर्थः। एवं स्वर्गादिकफलमप्यपूर्ववान् अन्तरं भवत् किम्भूतं देशनालक्षणं दिश्यते धर्माधर्मावनयेति देशना श्रुतिस्तया लक्ष्यते यत् फलं तद् यागस्य करणत्वं न हापयेदित्यर्थः।
ननु अपूर्वकल्पनया किं प्रयोजनम् , यागध्वंस एव स्वर्गफलभावनायां करणं भविष्यति, यथा विघ्नध्वंसो मङ्गलस्य कारणम् । न च ध्वंसस्य स्वर्गफलभावनकालमवस्थानं नास्ति, तस्य विनाशात् । अन्यथा अभावस्याभावो भाव एव । देवदत्तस्य पितामहादीनां पुनरावृत्तिः कथन स्यात्? सत्यम्। बहुवित्तप्रयासे कर्मणि पुरुषप्रवृत्तिर्न स्यात्। उभयथापि ध्वंसस्य तुल्यत्वात्। न हि बहुवित्तव्यसनादल्पवित्तव्यसनाद् वा ध्वंसस्य किञ्चिदन्यथात्वमस्ति। यद् वा एकत्र भावाभावयोः कारणत्वकल्पनायाः अनौचित्यात्। वस्तुतस्तु ध्वंसस्य करणत्वे यागस्य स्वर्गभावनायां स्वर्गस्य प्रतिबन्धकत्वमायातम्, कथमिति चेद् उच्यते, कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वमिति प्रतिबन्धकलक्षणम्। न च वक्तव्यम्, भवत् स्वर्गभावनायां यागस्य प्रतिबन्धकत्वम्, तेन किं विधिवाक्ये यागस्य करणत्वदर्शनात्। नैयासिकास्तु यदि ध्वंस: करणं तदा कर्मनाशाजलस्पर्शात् कृतयागस्य पुरुषस्य स्वर्गभावो न स्यात्, ध्वंसस्याविनाशित्वात्। तथापि,
गङ्गास्नानादि यागादि व्यापारः स प्रकीर्तितः।
कर्मनाशाजलस्पर्शादिना नान्यस्त्वसौ मतः ।। इति । स्थितौ तु अपूर्वनाशात् स्वर्गाभावः स्याद् इत्थमाचष्टे । ननु यथा यागोऽन्यक्रियाव्याप्यस्तदाऽकर्मकत्वात् कथं करणत्वं स्यादित्याह-तत्रेति । अपौरुषेयेषु ईश्वरातिरिक्तपुरुषाकृतेषु। कर्तुरभावादीश्वरातिरिक्तस्येत्यर्थः।।१०८६।
[समीक्षा _ 'अग्निष्टोमयाजी, वाजपेययाजी' इत्यादि शब्दरूपों के सिद्ध्यर्थ भूतकालिक क्रिया अर्थ में 'णिनि' प्रत्यय दोनों ही व्याकरणों में किया गया है । पाणिनि के दो सूत्र हैं - "भूते, करणे यजः'' (अ० ३।२।८४,८५) । पाणिनि ने भूतकालिक