________________
कातन्त्रव्याकरणम्
तत्र यद्यसौ यागः स्वर्गफलभावनां प्रति साधनत्वेन क्रियमाणः कर्मतामनुभवति, तथापि तस्य शक्तिभेदात् करणत्वं न विरुध्यते । यथा 'पीयमानेन मधुना मत्तः' इति । अत्र कर्मत्वमनुभवतो मधुनः करणत्वम् । यदीत्यादि । पुरुषा हि रागाद्युपहतचेतसो विपरीतमप्यर्थमभिदधतीति तत् कृतस्येव दोषप्रसङ्गो न तु अपौरुषेयेषु ।
एतदुक्तम्
३२२
-
दोषाः सन्ति न सन्तीति पौरुषेयेषु युज्यते ।
वेदे कर्तुरभावाच्च दोषाशङ्कैव नास्ति नः । । इति ।। १०८६ । [क० च०]
करणे० । “स्वं रूपं शब्दस्याशब्दसंज्ञा" (का० परि० २८) इति न्यायेन करणसंज्ञकस्यैव न शब्दस्वरूपस्य ग्रहणम् । ननु 'अतीते' इति कर्तृविशेषणं कथन्न स्याद् इत्यतीते कर्तरीति तदायमग्निष्टोमयाजीति प्रयोगो न स्यात् । न च वक्तव्यम्, अत्र कालाधिकारोऽस्ति येन तस्य विशेषणं भविष्यति ? सत्यम्, अतीतपदं प्रकृतेरेव श्रुताया न चाश्रुतस्य कर्तुः । अथ 'यज' इति पदेन स्वरूप एव प्रतीयते शब्दस्वरूपस्य चातीते प्रतीतिर्नास्तीति कुतः प्रकृतेर्विशेषणम्, नैवम्, शब्दे कार्यासम्भवादर्थे कार्यमिति । 'अतीत' इति यजेरर्थस्य विशेषणम् । तेनायमर्थः - अतीते धात्वर्थे वर्तमानादित्याह अतीतक्रियायामिति। अग्निष्टोमयाजीति । ननु अग्निष्टोमो हि यागो यजेरर्थः स एव कथं करणं तस्य कर्तृसाध्यत्वादित्याह - अग्निष्टोमाख्यैरिति । एतेन स्वर्गभावना यजेरर्थः इति समर्थितम् । भावितवान् उत्पादितवानित्यर्थः । एतेनाग्निष्टोमशब्देन नाग्निष्टोमविधायकं शास्त्रमुच्यते । अन्तःकरणत्वमस्तीति कश्चिद् आह । तन्निरस्तम्, उपचारपरम्परया न वेदार्थः ।
ननु यदि स्वर्गस्योत्पादना यजेरर्थः प्रतीयते तदा स्वर्गशब्दप्रयोगोऽयुक्त इत्याहस्वर्गशब्द इति। स्वर्गशब्दः पुनर्वृत्तौ समासे न प्रयुज्यते इत्यर्थः । अन्तर्भूत इति चेद् यजेरर्थेऽन्तर्भूत इत्यर्थः। वाक्ये त्वर्थकथनेन स्पष्टार्थं प्रयुज्यते इति । पञ्जिका-करणं खल्विति। ‘तिरोदधाति कर्तारं प्राधान्यं तन्निबन्धनम्' इति परार्द्धम् । अस्यार्थः - कर्तारं तिरोदधाति व्यवधत्ते क्रियासिद्धेस्तदन्तर्भावित्वात्, तर्हि करणस्यैव प्राधान्यं तत् कथं स्वतन्त्रः कर्तेत्याह-प्राधान्यमिति । कर्तुः प्राधान्यं तन्निबन्धनं यस्मादेवम्भूतस्यापि करणस्य कर्ता प्रेरक इति स्वतन्त्रः कर्ता भवति । भाव्यमानस्येति । अथ यागो हि जन्मान्तरभाविनं स्वर्गमनुगच्छतीति वक्ष्याम इत्याह-क्षणिकत्वादिति किञ्चिदिति । अपूर्वमित्यर्थः। अयमर्थःचत्वारि प्रमाणानि प्रत्यक्षोपमानानुमानशब्दभेदात् तत्रान्येषामसम्भवात् । अग्निष्टोमेन स्वर्गकामो यजेदिति विधिवाक्यदर्शनादनुमानमत्र प्रमाणम् । तत्रापि पक्षसाध्यहेतुदृष्टान्तान्तरेणैवानुमानसिद्धिः। यथा 'पर्वतोऽयं वह्निमान् धूमात् महानसवत्' इत्यत्र पर्वतः पक्षः, वह्निमत्त्वं साध्यम्, धूमादिति हेतु:, महानसवदिति दृष्टान्तम् । तद्वदत्रापि याग: