________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
३२१ यागः क्रियमाणः केनचित् क्रियतामिति तदुपायत्वात् करणत्वमन्वयितव्यम्, यद्यपि अग्निष्टोमादयो यागविशेषाः कर्मविवक्षात: करणं भवति तथा मन्दं गच्छति, मन्दया गत्यागच्छतीति सकर्मकापि अविवक्षितकर्मका भवति, यजते यजनकाले उपतिष्ठते। 'विकुर्वते सैन्धवाः' इति, यद्येवमुपायेऽपि यजेः परस्परसम्बन्धादनर्थकता ॥१०८६।
वि० प०] ___ करणे०। अग्निष्टोमेनेष्टवान् अग्निष्टोमयाजी। एवं वाजपेययाजी। अग्निष्टोमाख्यैरित्यादि । एतेन स्वर्गफलभावनायाम् अग्निष्टोमादेः करणत्वमिति दर्शितम्। तथाहि स्वर्गस्य भवतो भावना उत्पादना यजमानसम्बन्धी व्यापारः, तदग्निष्टोम: करणम् , तेन हि स्वर्गमुत्पादयतीति । ननु चाग्निष्टोमादिव्यतिरेकेण यजमानसम्बन्धी व्यापारो भावनाख्यो नास्त्येव, तत्कथं याग: करणमिष्यते? नैवम् , एवं विशेषव्यापारेऽपि सामान्यव्यापारोऽस्ति, विशेषस्य सामान्यव्यभिचाराभावात्। सामान्यव्यापार एवादौ फलार्थिनो बुद्धौ संनिविशते। तथाहि स्वर्गकामेन स्वर्ग: कर्तव्यः इति सामान्यव्यापारमेव बुद्धावारोपयति । तत: केन क्रियताम् इत्युपायमनुसरन् ‘अग्निष्टोमेन स्वर्गकामो यजेत' इति श्रुतेः। अग्निष्टोमस्यैव स्वर्गभावनायां करणत्वमाश्रयति, तस्मात् सामान्यव्यापारे स्वर्गस्योत्पादने विशेषव्यापारोऽग्निष्टोमादिको यागस्तत्साधकतमत्वात् करणम् । ननु करणं तदेव भवति येनावच्छिन्नकर्तृव्यापारः फलमुत्पादयति । तथा चाह
करणं खलु सर्वत्र कर्तृव्यापारगोचरः ।
तिरोदधाति कर्तारं प्राधान्यं तन्निबन्धनम् ।। न चाग्निष्टोमादि: स्वर्गफलभावनाविषयो भाव्यमानस्य स्वर्गस्य जन्मान्तरेऽभावाच्च क्षणिकत्वाच्च यागस्य तत्कालावस्थानानुपपत्तेः कथं करणत्वमिति ? सत्यम् , याग: स्वर्गस्य किञ्चित् कृत्वा विनश्यति, तत्कामिभिरनुष्ठीयमानत्वाद् वृक्षमूलानुष्ठितसेचनवत्। यथा फलार्थी वृक्षस्योदकमासिञ्चति । न च सेककर्मफलकालमनुवर्तते ततस्तेनाहितसंस्कागे वृक्षः फलाय कल्पते, तथा यागोऽपि किञ्चिदपूर्वं कृत्वा विनश्यति तच्चापूर्व यागस्यावान्तरव्यापारतया शक्तिरिति तद्द्वारेणैव स्वर्गफलभावनायां याग: करणम्। एतेनैतदपि देश्यमपास्तम, तर्हि अपूर्वनिष्पत्तो याग: करणम् अपूर्वं च स्वर्गभावनायामिति, अपूर्वद्वारेण यागस्यैव करणत्वात्। न हि स्वव्यापारव्यवाय: कारकाणां कारकभावमुपहन्ति, सर्वत्र तथाभावप्रसङ्गात् , न हि पाके करणभूतानां काष्ठानां ज्वलनमवान्तरव्यापारस्तेषां करणत्वमुपहन्तीति। तदुक्तम् -
ज्वलनाज्जायमानेऽपि पाके तत् समनन्तरम् । काष्ठानां करणत्वं यत् प्रागुक्तं तन्न हीयते ।। स्वर्गादिफलमप्येवमपूर्वानन्तरं भवत् । देशनालक्षणं यागकरणत्वं न हापयेत् ।।