________________
३२०
कातन्त्रव्याकरणम्
नेतदेवम्, स्वभावतोऽयमतीतः क्तान्तशब्दोऽतिक्रान्ते वर्तते। यद्येवम्, णिनिप्रभृतयोऽप्यातीतशब्दत्वात् स्वभावादतिक्रान्ते वर्तिष्यन्ते? सत्यम्, स्वाभाविकमेव शब्दैरर्थानामभिधानम्, किन्तु प्रतिपत्तिवशादतीतविधानम् । यथाहि सर्वेषामतीतशब्दोऽतिक्रान्ते प्रतीतो न तथा णिनिप्रभृतयः ।। ___अथवा अत्रातीतशब्दो न व्युत्पाद्यते किन्तीतीतो भावी भूतो निपातनादतिक्रान्ते वर्तते । नन् यजिरयं सकर्मकोऽग्निष्टोमादय: कर्तव्यत्वात् कर्म भवन्ति न करणानि । केचिद् आहः अग्निष्टोमादिनिबन्धना ग्रन्था इहाग्निष्टोमादयस्तैरग्निष्टोमाख्यैर्विधानों हरिः प्रक्षिप्तवान् न तु दत्तवान् सोऽग्निष्टोमयाजी । नैवम्, उपचारपरम्परया न वेदार्थ इति, अग्निष्टोम इति यागविशेष उच्यते, तस्य कर्तव्यता-यजेत । यागं कुर्यादिति सम्बन्ध उपपद्यते फलप्रदं च श्रूयते । स्वर्गकाम इति । स्वर्ग कामयते स्वर्ग करोतीति गम्यते । यस्माद् यत् काम्यते तत् क्रियते नेतदपि ? सत्यम् , न हि स्वर्गकामो यजेतेति वाक्ये यागस्य साधनत्वं गम्यते, प्रत्यक्षानुमानयोरविषयत्वात् । योऽपि शब्दो यजेतेति सोऽपि यागस्य कर्तव्यतामाचष्टे न फलस्येति । तस्मादग्निष्टोमेन स्वर्गकामो वसन्ते ज्योतिषा दर्शपोर्णमासाभ्यां यजेतेत्येवमादीनां स्वर्गफलभावनायां करणत्वम्, स्वर्गस्य भवतो या भावना उत्पादना यजमानसम्बन्धी व्यापारस्तत्राग्निष्टोमादि: करणमित्याहअग्निष्टोमाख्यैरित्यादि।
न चाग्निष्टोमादिव्यतिरेकेण यजमानस्य भावनाख्यो व्यापारो नास्ति तत्र याग: करणमिष्यते। नैतदेवम्, विशेषव्यापारेऽपि सामान्यव्यापारोऽस्ति विशेषस्य सामान्यानतिरिक्तत्वात् सामान्यव्यापार एव हि फलार्थिनो बुद्धौ संनिविशते, तस्मात् सामान्यव्यापारे यज्ञस्योत्पादने विशेषव्यापारोऽग्निष्टोमादियागः स्वर्गभावकः करणम्। अथ यागस्य करणत्वे किं कर्मेति एकवाक्योपनीतं स्वर्गादिफलमिति ब्रूमः। न च ‘स्वर्गकामः' इत्यस्य फलस्यान्यपदार्थे गुणीभूतस्य यजेतेति कर्तव्यतावचनेन समसम्बन्धो न युज्यते। नैवम्, यदप्युक्तितोऽन्यपदार्थस्य प्राधान्यम्, अर्थतस्तु स्वर्गस्यैवोपमेयतया तदुपायान्वेषणदशायां च यागः श्रूयमाण: उपायतया विज्ञायते, वाक्यगम्यत्वात् कार्यकारणभावस्य । कथं यागः कर्तव्यता विभक्तिश्रूयमाणा तस्मादाक्षिप्तफलपदेन सम्बन्धयितुं शक्यते। तदुच्यते, अभिहितमेतद् यागस्य कर्तव्यता नोपपद्यते, सिद्धरूपस्य करणत्वेनोपादानात् । सन्निहितं च फलपदं यदा तेन स्वर्गस्य सम्बन्धो न युक्तो हेतुरिति अन्तरङ्गसम्बन्धे पदवाच्येऽनुत्पन्ने बहिरङ्गोऽपि न स्यात्। मा भूद्, आनर्थक्यमिति तत्रोच्यते 'काष्ठः स्थाल्यामोदनं पचेतात्मकामः' इति किमत्र प्रधानं विधीयमानत्वात् पाक इति साधनानामन्येषामुपायत्वाभावः। यथा- 'तैलं पक्वं घृतं पक्वम् ' इति पच्यमानान्यपि द्रव्यान्तराणि न व्यपदिश्यन्ते एवम् अग्निष्टोमेन स्वर्गकामो यजेतेति अयागप्रतिषेधेन यागस्य विधीयमानत्वात् प्राधान्यं कर्मार्थः प्रतिपद्यते यागेन यागं कुर्यादिति सम्बन्ध उपपद्यते चेद्, नैवम्। स हि