SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः ३१७ शब्द के उपपद में रहने पर 'मन् ' धातु से णिनि प्रत्यय, पुंवद्भाव, उपधादीर्घ, स्त्रीलिङ्ग में 'ई' प्रत्यय तथा विभक्तिकार्य ।।१०८४। १०८५. खश्चात्मने [४।३।८०] [सूत्रार्थ] कर्म के उपपद में रहने पर आत्मार्थक ‘मन् ' धातु से ‘णिनि' प्रत्यय तथा 'खश्' प्रत्यय होता हैं ।।१०८५। [दु० वृ०] कर्मण्युपपदे आत्मार्थो यो मन्यतिस्तस्माणिनिर्भवति खश्च। विदुषीमात्मानं मन्यते विद्वन्मानिनी, विदुषिम्मन्या। विद्वांसमात्मानं मन्यते विद्वन्मानी, विद्वन्मन्यः। पट्वीमात्मानं मन्यते पटुमानी, पटुम्मन्य: तुल्याधिकरणत्वाणिनि पुंवद्भावः। तादर्थ्यमत्रार्थद्वारेण। आत्मशब्द: कर्मभूतो वाक्ये सुखार्थः। कारकशक्तिभेदाद् भेद इति । एक एव कर्ता कर्म च स्यात् । यथा पीयमानं मधु मदयति । बाह्योऽत्रात्मवचनात् ।।१०८५। [दु० टी०] खश०। चकारेण खश् एव समुच्चीयते, अधिकाराण्णिनिर्भवति । यदि पुनश्चकारेण णिनिरनुकृष्यते, तदोत्तरत्रानुवृत्तिर्न स्यात्, खशेव स्यादित्याह- खश्चेति। आत्मशब्दः पराभाववचनः, परो यो न भवति स इहात्मेति न पुनरन्तरात्मा गृह्यते, व्यवच्छेद्याभावात्। अन्यस्त्वाह-करचरणादिलक्षणं विहाय को नाम विद्वान् अदृष्टपरिकल्पनमाद्रियते, युक्तं चादृष्टं विहाय दृष्टपरिकल्पनमित्याह-बाह्य इत्यादि। यस्त्वात्मनीति सप्तमी पठति तस्य सामर्थ्यादात्मशब्दो मननक्रियाविषयो भवति, न कर्तृविशेषणमात्मविषयं मन्यतेरित्यर्थः। अपण्डित: पण्डित इवान्यैर्मन्यते, सोऽन्यैर्मन्यमानः स्वयमेवात्मानं पण्डितं मन्यते। किन्तु यथा ऋत्विजिति तादर्थ्यचत. सखावबोधने तथा सप्तम्यामिति। एवमपि ज्ञानग्रहणं कर्तव्यमात्मज्ञाने इत्यात्मसम्बन्धिनि ज्ञाने वर्तमानादिति । नैवम् , मनिर्ज्ञान एव वर्तते साकाङ्क्षत्वेऽपि चात्मार्थस्य गमकत्वात् समासः ।।१०८५। [वि० प०] खश। अधिकृत इव णिनिः प्रवर्तते। चकारस्तु खशमेव समच्चिनोतीत्याहखश्चेति। यनि पुनश्चकारेण णिनिरनुकृष्यते, तदा चानुकृष्टत्वादसौ नोत्तरत्र प्रवर्तते, किन्तु खश एव प्रवृत्तिः स्यादिति भावः। आत्मन इति किम्? परार्थे मन्यतौ मा भूत्। पटुमानी देवदत्तस्येति पूर्वेण णिनिरेव। तुल्येत्यादि। खशि तु दीर्घस्योपपदस्येत्यादिना ह्रस्व एव परत्वात्। तादर्थ्यमित्यादि। अर्थद्वारेणेति। मन्यतेरात्मार्थत्वादित्यर्थः। कथं पुनरेकस्यैव कर्मत्वं कर्तृत्वं च कदा युज्यते इत्याह-कारकेत्यादि। परो यो न भवति स इह आत्मा बाह्यः शरीरलक्षण एवोच्यते, न पुनरन्तरात्मा ज्ञानादिगुणाधारः, अत एवात्मग्रहणात्। अन्यथा ज्ञानस्यात्मगुणत्वाद् ज्ञानार्थो मन्यति: परार्थोऽपि आत्मार्थ एवेति किमात्मनेग्रहणेनेत्याह-बाह्य इति।।१०८५।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy