________________
३१८
कातन्त्रव्याकरणम्
[क० च०]
खश्चा०। ननु पुंवच्चेत्यस्यानुवृत्तिर्नास्तीति लक्ष्यते वृत्तावविवरणात्। तत्कथं विद्वन्मानिनीत्यत्र पुंवद्भाव इत्याह-तुल्याधिकरणत्वादिति। एतेन पुंवदित्यत्र न वर्तते तुल्याधिकरणत्वात् पुंवद्भाषितेत्यादिना सिद्धत्वादिति ध्वनितम्। ननु वाक्ये आत्मशब्दप्रयोगाद आत्मार्थता गम्यते प्रयोगे तदभावात् कथमात्मार्थता प्रतीयते? सत्यम् , आत्ममननं मन्यतेरर्थः। अत्र मननस्यात्मविषयत्वाद्, अतो मन्यतेरर्थद्वारेणैवात्मार्थ: प्रतीयते, कुतः आत्मशब्दप्रयोगप्रसङ्ग इत्याह- तादर्थ्य मित्यादि। तादर्श मात्मार्थता अर्थद्वारेणेव मन्यतेर्वाच्यत्वेनेत्यर्थः, तर्हि कथं वाक्ये आत्मशब्दप्रयोगः, मन्यतेरेव तदर्थत्वादित्याहआत्मशब्द इत्यादि। कश्चिद आह-ननु मनधातुर्ज्ञाने पठ्यते तत्कथमात्माओं मन्यतिरित्युच्यते? सत्यम , मनधातोरों ज्ञानम् आत्मार्थं भवति, तदद्वारा मन्यतेरपि आत्मार्थतेत्युच्यते इत्याह-तादर्थ्यमिति। कारकेति। शक्तिं कारकमिति वैयाकरणाः। यदि 'वह्निर्दहति' इत्यादौ शक्तिमतो वह्न: कारकत्वमुच्यते तदाऽरण्यावष्टब्धायां शक्तौ सन्नपि स शक्तिमान् वह्निर्न दहतीति दूषणम्, प्रथमोपस्थितत्वाच्च शक्तेरेव कारकत्वम् , कारकं च तच्छक्तिश्चेति कारकशक्तिः, तस्या भेदः, तस्मादेकस्यापि शक्तिमतो वस्तुनो भेद इत्यर्थः। एतेन शक्तेर्द्वित्वादेकस्यापि द्वित्वम्।
पीयमानमिति । सर्वसादृश्यमत्र नास्तीति, यतोऽत्र क्रियापेक्षया शक्तिद्वयम् । पटुमानिनीत्यत्र तु एकक्रियापेक्षया भेद इति, किन्तु एकस्यापि शक्तिभेदाद् भेद इत्यंशे सादृश्यम्। बाह्य इति वेदान्तवादिनो मते एक एवात्मा विभुस्तस्य नास्ति भेद इति आत्मग्रहणव्यावृत्तिरेव नास्ति। आत्मशब्देन शरीरलक्षणमुच्यते। इत्याह-बाह्य इत्यादि। तथा चात्मा शरीरे पुरुषे च, नैयासिकानां तु जीवात्मा परमात्मा च, न तन्मते पक्षः।। १०८५।
[समीक्षा]
'दर्शनीयमानी, दर्शनीयम्मन्यः, विद्वन्मानी, विद्वन्मन्यः' इत्यादि शब्दरूपों के सिद्ध्यर्थ तेनों ही व्याकरणों में 'खश् ' तथा 'णिनि' प्रत्यय किए गए हैं । पाणिनि का सूत्र है- “आत्ममाने खश्च'' (अ० ३।२।८३)। अत: उभयत्र समानता ही है ।
[रूपसिद्धि]
१. विद्वन्मानिनी। विदुषी+ मन् +णिनि ई-सि। विदुषीमात्मानं मन्यते। 'विदुषी' शब्द के उपपद में रहने पर 'मन ज्ञाने' (३।११३ ) धातु से प्रकृत सूत्र द्वारा ‘णिनि' प्रत्यय, उपधादीर्घ, “भाषितपुंस्कं पुंवद् वा '' (२।२।१४) से 'विदुषी' शब्द को पुंवद्भाव, स्त्रीलिङ्ग में 'ई' प्रत्यय, लिङ्गसंज्ञा, सि-प्रत्यय तथा उसका लोप । ___२. विदुषिम्मन्या। विदुषी+ मन+खश् +आ +सि । विदुषीमात्मानं मन्यते।
.
.
]