________________
३१६
कातन्त्रव्याकरणम्
कार्यातिदेश: स्यात् तदाऽनेन पुंवद्भावो भवन् खट्वादिष्वपि स्यादिति।। १०८४।
[क० च०]
मनः। पुंवदिति। ननु यदि शास्त्रमभिमतमत्र तदा ‘पटुमानिनी' इत्यत्र कथं पुंवद्भाव:, तुल्याधिकरणे पदे तस्य विषयत्वात्। अथास्मादेवातिदेशाद् विषयेऽपि प्रवर्तते इति। अन्यथा तेनेव सिद्धम्, किमनेनेति। तर्हि 'खट्वामानिनी' इत्यत्रापि स्यात्। यथा तुल्याधिकरणपदाभावेऽपि प्रवर्तते। तथा भाषितस्कत्वाभावेऽपि प्रवर्ततामिति न देश्यम्, यस्य भागस्यार्थपरित्यागं विना सूत्रमनुपपन्नं स्यात्, तस्यैव तुल्याधिकरणपदस्याप्यभावे एतत् सूत्रं प्रवर्तते इति तस्मादतिदेशान्नान्यत्र। अन्यथा णिन्यन्तपदे परत: उपपदस्य पंवद्भावातिदेशो णिन्यन्तपरं च तुल्याधिकरणं न सम्भवतीति कथमतिदेशोऽर्थवान् स्यात्, उपपदं तु भाषितपुंस्कं सम्भवतीति कथमन्यत्र स्यात्।
नन् यदि कार्यातिदेशपक्षेऽनेनैव कार्य क्रियते इत्यन्यत्र प्रतिषिद्धस्यापि ऊङन्तादेवात्र पंवद्भाव: स्यात् तदा कथम् “अग्निवच्छसि' (२।१६५) इत्यत्र कार्यातिदेशेऽपि तत्रास्त्रियामिति प्रतिषेधान्मातृरित्युक्तं कार्यातिदेशपक्षेऽनेनैव कार्यस्य क्रियमाणत्वात्। अथ "अग्निवच्छसि" (२।१।६५) इत्यत्र कार्यातिदेशेऽपि यस्य यदुक्तं तस्य तदेव श्रुतत्वादिति वाच्यं चेत् , तर्हि तत्रापि कार्यातिदेशश्रुतस्याश्रयणे को दोष:? सत्यम् , श्रुतत्वमनादृत्योक्तमिदं यदाद्रियते श्रुतत्वं तदा कार्यातिदेशेऽपि न दोषः। न स्मर्यते इति पञ्जी। कारणं चात्र मनधातोः सकर्मकत्वात् कर्मोपपदे निरपेक्षता 'देवदत्तेन मन्यते' इत्यादौ करणादावपपदे सापेक्षतेति । लाक्षणिकत्वादिति। यद्यप्यनुबन्धकृतलाक्षणिकत्वं नाश्रीयते, तदा 'क्षिष् हिंसायाम्' (८।३०) इति लाक्षणिकत्वाद् अभ्युपगम्योक्तम् ।। १०८४।
[समीक्षा]
‘पटुमानी, पटुमानिनी, दर्शनीयमानी' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'णिनि' प्रत्यय का विधान किया गया है । कातन्त्रकार ने उपपद में पुंवद्भाव का विधान प्रकृत सूत्र में ही करके लाघव दिखाया है, जबकि पाणिनि ने प्रकारान्तर से ह्रस्वविधानार्थ भिन्न सूत्र बनाया है । पाणिनि के णिनिप्रत्ययविधायक तथा ह्रस्वविधायक सूत्र हैं- “मनः, खित्यनव्ययस्य'' (अ०३।२।८२;६।३।६६)। इस प्रकार कातन्त्रीय लाघव तथा पाणिनीय गौरव स्पष्ट है ।
[रूपसिद्धि]
१. पटुमानी। पटु + मन् + णिनि + सि । पटुम्मन्यते । ‘पटु' शब्द के उपपद में रहने पर 'मन ज्ञाने' (३।११३) धातु से प्रकृत सूत्र द्वारा ‘णिनि' प्रत्यय, उपधादीर्घ, लिङ्गसज्ञा, सि-प्रत्यय, नकार की उपधा को दीर्घ तथा 'सि-न् ' का लोप ।
२. पटुमानिनी। पटवी + मन् + णिनि + ई + सि । पट्वीं मन्यते । ‘पट्वी'