________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
३१५ ३. क्षीरपायिण उशीनराः। क्षीर + पा + णिनि + जस् । क्षीरमाभीक्ष्ण्येन पिबन्ति। 'क्षीर' शब्द के उपपद में रहने पर 'पा पाने' (१।२६४) धातु से प्रकृत सूत्र द्वारा ‘णिनि' प्रत्यय, यकारागम, नकार को णकार तथा "रेफसोर्विसर्जनीयः'' (२।३।६३) से सकार को विसर्गादेश ।
४. सौवीरपायिणो बाह्रीकाः। सौवीर + पा + णिनि + जस् । सौवीरं काञ्जी बदररसं वा आभीक्ष्ण्येन पिबन्ति । ‘सौवीर' शब्द के उपपद में रहने पर 'पा' धातु से ‘णिनि' प्रत्यय आदि कार्य पूर्ववत् ।।१०८३।।
__ १०८४. मनः पुंवच्चात्र [४।३।७९] [सूत्रार्थ
कर्म कारक के उपपद में रहने पर 'मन ज्ञाने' (३।११३) धातु से ‘णिनि' प्रत्यय तथा उपपद को यथासम्भव पुंवद्भाव भी होता है ||१०८४।
[दु० वृ०]
कर्मण्युपपदे मन्यतेर्णिनिर्भवति, अस्मिंश्च णिनिप्रत्ययान्ते धातावुपपदस्य पुंवच्चोपतिष्ठते यथासम्भवम्। पटुम्मन्यते पटुमानी। पट्वीम् मन्यते पटुमानिनी। पुंवच्चेति। पुंवदादिशास्त्रमत्राभिप्रेतम्। तेन खट्वामानिनी, ब्रह्मबन्धूमानिनी। द्रोणीमानिनी इति सिद्धम्।। १०८४।
[दु० टी०]
मनः । जात्यर्थमताच्छील्यार्थं च वचनम् । 'मन ज्ञाने' (३।११३) इत्यस्य प्रतिपदोक्तस्य ग्रहणं न लाक्षणिकस्य । 'मनु बोधने' (७।९) इत्यस्य 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४८) इत्याह- मन्यतेरित्यादि । अन्य आह-न कश्चिदिहार्थरूपकृतविशेष: । किन्तूत्तरार्थं शानुबन्धे मन्यतेर्दिवादित्वाद् मनुतेस्तनादित्वाद् उविकरणं प्रसज्येत । एकदेशेनापि समुदाय उपलक्ष्यते । यथा भीमो भीमसेन इत्याहपुंवच्चेति । कार्यातिदेशे हि खट्वादिषु पुंवद्भाव: प्रसज्येतेति भाव: । 'देवदत्तेन मन्यते, देवदत्तोऽयं मन्यते' इत्यादौ न भवति, बहिरङ्गकर्मापेक्षत्वात् । अन्यस्त्वाहकर्मणीति स्मर्यते न नाम्नीति ।।१०८४।
[वि० प०]
मनः। कर्मण्युपपदे इति। नाम्नीत्यनन्तरमपि न स्मर्यते इत्यर्थः। मन्यतेरिति। 'मनु बोधने' (७।९) इत्यस्य तु तनादिपठितस्य न ग्रहणम् , उकारलोपे लाक्षणिकत्वात्। विशेषस्तूत्तरत्र शानुबन्धे खशि विकरणकृतोऽस्तीति। एकदेशेनापि समुदायोलक्ष्यते। यथा भीमो भीमसेन इत्याह-पुंवच्चेत्यादि। तेन यद् भाषितपुंस्कम्, यद् ऊङन्तम्, यच्च समानायामाकृताविति न वर्तते, तत्र यथाक्रमं सर्वत्र व्यावृत्तिः सिद्धेति। पुंवद्भाषितपुंस्केत्यादिसूत्रे सकलस्यास्य व्यावृत्तिविषयत्वादिति। यदि पुनरिह पुंवच्चेति